पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११ प्रक.]
87
अक्षशालाया सुवर्णाध्यक्ष

 हस्तिच्छविकः सहरित प्रतिरागी विक्रयहितः।
 स्थिरः परुषो विषमवर्णश्चाप्रतिरागी क्रयहितः ।
 श्वेत 'श्चिक्कणः समवर्णः श्लक्ष्णो मृदुभ्राजिष्णुश्च श्रेष्ठः।
 तापो बहिरन्तश्च सम किञ्चल्कवर्णः कारण्ड कपुष्पवर्णो 1033

वा श्रेष्ठः । ३यावो नीलश्चाप्राप्तकः ।।
 तुलाप्रीतमानं पौतवाध्यक्षे वक्ष्याम । तेनोपदेशेन रूप्यभुवर्णं दद्यादादीत च ॥
 अक्षशालासनायुक्तो नोपगच्छेत् । अभिगच्छन् उच्छेद्यः ।।
 आयुक्तो वा सरूप्यस्वर्णस्तेनैव जीयेत ॥
 विचितवस्त्रहस्तगुह्याः काञ्चनपृषितत्वष्टृतपनीयकारवो ध्माय- कचरकपांसुयावकाः प्रविशेयुः निष्कसेयुश्च। सर्व चैषामुपकरण- मनिष्ठिताश्च प्रयोगास्तत्रैवावतिष्ठेरन् । गृहीतं सुवर्ण धृतं च प्रयोग करणमध्ये दद्यात् । सायं प्रातश्च लक्षितं कर्तृकारयितृमु- द्राम्यां निदध्यात् ।।

 क्षेपणो गुणः क्षुद्रमिति कर्माणि ॥
 क्षेपणः काचार्पणादीनि !
 गुणस्मूत्र" वानादीनि !!
 घनं सुपिरं पृषिता दियुक्तं क्षुद्रकमिति ।।

अर्पयेत् काचकर्मणः पञ्चभागं काञ्चनं दशमागं मानम् । ता-


1छेद. 2.करण्डक. 3.पृषत 4.धात्रका . 5.माधि
6.क्षुद्रकान 7.त्रक. 8.पृषता. 9.येच.
10 करमानम् । कटकमानमिति च व्याख्यापाठः, कटुमान.