पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
86
[२ अधि. १३ अध्या
अध्यक्षप्रचार


सीसेन शोधयेत् । सीसान्वयन भिद्यमानं शुष्कपटलैर्ध्मापयेत् । रूक्षत्वाद्भिद्यमानं तैलगोमये निपेचयेत् ।
 आकरोद्गतं गीसान्वयेन भिद्यमानं पाकपत्राणि कृत्वा गण्डिकासु कुट्टयेत् । कन्दलीवज्रकन्दकल्के वा निषेचयेत् ।
 तुत्थोद्गतं गौडिकं काममलं कवकं चाक्रवालिकं च रूप्यम्। श्वेतं स्निग्धं मृदु च श्रेष्ठम् । विपर्यये स्फोटनं च दुष्टम् । तत्सीसचतुर्भागेन शोधयेत् ।
 उद्गतचूलिकमच्छ भ्राजिष्णु दधिवर्ण च शुद्धम् ।
 शुद्धस्यैको हारिद्रस्य सुवर्णो वर्णकः । ततश्शुल्बकाकण्युत्तरा पसारिता आचतुस्सीमान्तादिति षोडशवर्णकाः ।
 सुवर्ण पूर्व निकष्य पश्चाद्वर्णिका निकषयेत् ! समरागलेख. मनिम्नोन्नते देशे निकषितं परिमृदितं परिलीढं नखान्तराद्वा  गौरिकेणावचूर्णितमुपधिं विद्यात् ।
 जातिहिङ्गळुकेन पुष्पकासीसेन वा गोमूत्रभावितेन दिग्धेना ग्रहस्तेन संस्पृष्टं सुवर्ण श्वेतीभवति ।
 सकेसरस्निग्धो मृदुभ्रांजिष्णुश्च निकपरागः श्रेष्ठः ।
 कालिङ्गकस्थाली ' पाषाणो वा मुद्गवर्णो निकपःश्रेष्ठः ।
 समरागी विक्रयऋयहितः ।


1 तुत्योद्गत गौळिक काम्बुक इति पाठो व्याख्यानुसारी 2.कृष्य 3.स्तापी,