पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३० प्रक.
88
आकर कर्मान्तप्रवर्तनम्


 यवमाषतिलपलाशपीलुक्षारैगोक्षीराजक्षीरैर्वा कदली वज्र कन्दप्रतीवापो मार्दवकर ।

मधुमधुकमजापयः सतैलं
धृतगुडकिण्वयुतं सकन्दळीकं ।
यदपि शतसहस्रधा विभिन्नं
भवति मृदु त्रिभिरेव तन्निषेकैः ।।
गोदन्तशृङ्गप्रतीवापो मृदुस्तम्भनः ।
भारिकस्निग्धो मृदुश्च प्रस्तरधातुर्भूमिभागो वा पिगळो 971
हरितः पाटलो लोहितो वा ताम्रधातुः ।

 काकमेचकः कपोतरोचनावर्णः श्वेतराजिनद्धो वा विस्रस्सी- सधातुः।
 ऊपरकर्बुरः पक्कलोष्ठवर्णो वा त्रषुधातुः । कुरुम्बः पा- ण्डुरो हितस्सिन्दुवारपुष्पवर्णो वा तीक्ष्णधातुः ।
 काण्ड भुजपत्रवर्णों वा वैकृन्तकधातुः ।
 अच्छस्निग्धः समभो घोषवान् शीततीव्रस्तनुरागश्च मणिधातुः ।
 धातुसमुत्थितं तज्ज्ञातकर्मान्तेषु प्रयोजयेत् ।
 कृत भाण्डव्यवहारमेकमुखमययं चान्यत्र कर्तृऋतृविक्रेतृ- णां स्थापयेत् ।
 आकरिकमपहरन्तमष्टगुणं दापयेदन्यत्र रत्त्रेभ्यः ।
 स्तेनमनिसृष्टोपजीविनं च बद्धं कर्म कारयेत् ।


1 कन्दली. 2.खुरम्भ . 3.लो. 4.काकाण्ड काण्ड इति टीकायाम् .
5.शीतस्तानस्सतु. 6 अक्रत, 7.'बद्धा, बद्ध दण्डीपकारिण च.