पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
केनोपनिषत्

उपनिपदं भो हीति । उक्ता त उपनिषत् ।।
ब्राह्मीं वाव त उपनिपदमनूमेति ।। ७ ।।

 एवं ‘आत्मना विन्दते वीर्यमित्यर्थे स्थिते सति वीर्यावाप्तिहेतुभूत भगवदनुग्रह- साधनप्रतिपादिकाम् उपनिषदं भो ब्रूहीति शिष्येणोक्त इतर आह–उक्ता त इति । ब्रह्मप्रतिपादिकां प्रधानोपनिपदमपोचाम । अतः प्रधानोपनिपतेव । साधनप्रति- पादिकां चौपनिषदं वक्ष्यामि यदि शुश्रूपस इति भावः ॥ ७ ॥

तस्यै तपो दमः कर्मनि प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्य-
मायतनम् ॥ ८ ॥

 तस्यै तपो दमः कर्मति प्रतिष्ठा । तस्यै उक्ताया उपनिपदे साधनभृतानि । कीयशोषणलक्षणं तपः, इन्द्रियनिग्रहरूप उपशमः, अग्निहोत्रादिलक्षणं कर्म च उपनिषच्छब्दिताया ब्रह्मविद्यायाः प्रतिष्ठा दार्श्वहेतुः । वेदाः सर्वाङ्गानि सत्यमाय- तनम् । पडङ्गसहिताश्च वेदाः सत्यवचनञ्च ब्रह्मविद्योत्पत्तिकारणमित्यर्थः ॥ ८ ॥


७. शिप्यम्य जिज्ञासोत्थापकमर्थविशेष दर्शपन्नाह दमात्मनेत । पम्यनधृण्यपरिहाराय साधनोपानुशनप्रीतेन परमात्मनेति क्तव्यम् । तं माधनविशेषं ब्रूहीनि प्रार्थयत इति भावः । शिष्येणोक्त इसमी प्रथमच वा । ननु यदि भन्ददनग्रहसाधनदिपर्यव प्रार्थना क्थ उक्ता ते उनपदिन्युत्तरपद्भनिरल्याशिवाय तात्पर्यमाह व्रक्षेति । यद्ययगं प्रयी साधनमेोपदन्यं मन्यते तथाऽपि अत्र उपनिषदारं तदीयं पश्यतोऽन्ये तार तदधि वृत्त उपदेशो नोनिद्वप इति भ्राम्युरिति मन्यमनि आचार्यः पक्तान्युपनिषदेचेन ज्ञापयन् उक्तःक्ष्यमाणयो- रुपनिषदोदियादवेकाय उक्ती ऋद्मविषयेनि 'बाह्य वाव ते' इत्येवमाहेति भावः । यदीनि ? अनन्दिग्धे सन्धिग्धदुचनम् । शाधानि चेप्रमाणं म्युरिति । ते इत्यर्थे पर्यवमितम् ।। ७ ।।।

८. तस्य । पष्टपथे बहुले छन्दसीने चतुर्थः । तम्या: । उशिम इति । इन्द्रियनिग्रहम्पो दम इति किं पाई इनि विमृश्यम् । दाय पियान्तरप्रमन्नानभिभाव्यत्वम् । वेदादीना- मेकाम्यो दानेन गमुच्चयोऽदगम्यते । तत्राहि नोर्न तुल्यत्समुच्चय इत्यभिप्रायेणाह-पडद्ग- महिताचेनि । ननु उत्तिहेतुः प्रथमं द्वाच्यः पश्चातुः । मम् । इह तु दियाकालेश्यनु- दर्तमानमुपरकमतरङ्गं भवतीनि दाढर्यहने: प्राथम्यम् । वेदास्तु प्रमाणतया प्रमामुत्पाद्य निदर्तन्त इनि बहिरङ्गाः । नन्वेवं स तेऽत्र न दक्तया. | मलं ने इत्तव्याः । सलवचन- विधानार्थं तु च्यन्ते । यथाऽनधीतवेदस्य ब्रह्मविद्यास्वपमेव दुलर्भ तथाऽसल्यदादिनः । तम्मान् सलमायतनं तस्याः । आयतनं यस्मिन्नायतते स्वरूपं लभते किञ्चित् | यस्मिन्नसति रूपमृतव नास्ति । तपआदिदिरहे उत्पन्नापि विद्या दुर्वला भवेत् | अनृतदादे तु नैवोत्पद्यतेनि गामान्यधर्मस्यापि मलचनस्य ब्रह्मविद्यायामन्तरतरोपरिक्रमिह विधिन्मितमिनि ॥ ८ ॥