पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

PICS अप्रस्तुतप्रशंसालंकारः२७] अलंकारचन्द्रिकासहितः । ८३ कार्यनिबन्धनामस्तुतप्रशंसायामुदाहृतानि प्राचीनैः। वस्तुतस्तु तदतिरेके- ऽपि न दोषः । नाप्रस्तुतप्रशंसायां प्रस्तुताप्रस्तुतयोः पञ्चविध एव संबन्ध इति नियन्तुं शक्यते। संबन्धान्तरेष्वपि दर्शनात् । यथा-- तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य । एते कडङ्गरचया इव विप्रकीर्णा . . जैवातृकस्य किरणा जगति भ्रमन्ति ॥ . अत्र प्रस्तुतानां चन्द्रकिरणानां भगवन्मन्दमितरूपदिव्यौषधधान्यवि. शेषकडङ्गरचयस्योत्प्रेक्षणेन भगवन्मन्दस्मितस्य तत्सारतारूपः कोऽप्युत्कर्षः प्रतीयते। नच धान्यकडङ्गरचययोः कार्यकारणभावादिसंबन्धोऽस्ति । अतः सहोत्पत्त्यादिकमपि संबन्धान्तरमाश्रयणीयमेवं । एवमुपमानोपमेयावाश्रित्य तत्र कविकल्पितकार्यकारणभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते । ततोऽन्य- त्रापि दृश्यते । यथा- कालिन्दि ब्रूहि कुम्भोद्भव जलधिरहं नाम गृह्णासि कसा- स्छनोमें नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपल्याः। मालिन्यं तर्हि कस्सादनुभवसि मिलल्कज्जलैर्मालवीनां नेत्राम्भोभिः किमासां समजनि कुपितः कुन्तलक्षोणिपालः॥ अन्न किमासां समजनीति मालवीनां तथा रोदनस्य निमित्ते पृष्टै तस्मि- यमरणरूपनिमित्तमनाख्याय कुपितः कुन्तलक्षोणिपाल इति तत्कारणमभि- हितमिति कारण निबन्धना। मालवान्प्रति प्रस्थितेन कुन्तलेश्वरेण किं ते ज्ञानमात्रात्कार्योत्पत्तरित्यखरसादाह-वस्तुतस्त्विति ॥ तदतिरेके तस्याः प्राचीनोदाहृताप्रस्तुतप्रशंसाया अतिरेके प्रकारपञ्चकाधिक्ये ॥ तापेति ॥ हे हरे, तव निःश्वासरूपमन्दमारतेन निबुसीकृतस्य बुसरहितीकृतस्य स्मितरूप- स्याध्यास्मिकादितापत्रयोषधश्रेष्ठस्य विप्रकीर्णाः कडङ्गरचयाः बुससमूहा इवे जैवातृकस्य चन्द्रस्य किरणा जगति भ्रमन्तीत्यन्वयः ॥ तत्सारतारूपः किरण- सारतारूपः ॥ पवमिति। हृतसारमित्युदाहरणे चन्द्रवदने उपमानोपमेय- पदार्थावाश्रिख चन्द्रसारांशहरणस्य सतः कविप्रौढोक्तिकल्पितं कारणलम् । एवमन्येष्वपि द्रष्टव्यम् ॥ कालिन्दीति निर्मदायाः समुद्रस्य च संवादोऽयम्। तत्र यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्के कोपात्साकूतं नर्मदाया उत्तरं- हे कुम्भोद्भवागस्त्यमुने ब्रूहीति । ततः पुनः समुद्रस्य प्रतिवचनं-- अहं जल- विर्भवामि मम शत्रो म कस्माद्धेतोलासीति । सा पुनराह नर्मदाहमित्यादि । ततः समुद्रः पुनराह तर्हि कुतो मालिन्यमनुभवसीति । सा पुनराह मिल- कजलैमालवदेशाशनानां नेत्राश्रुमिरिति । ततः किमासां जातमिति समुद्रस्य