पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [ अप्रस्तुतप्रशंसालंकारः २७ अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती ____ कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बताम् ॥ अन्न नायिकागत्यादिषु वर्णनीयत्वेन प्रस्तुतेषु हंसादिगतगर्वशान्त्यादिरू- पाण्यौचित्येन संभाव्यमानानि काण्यभिहितानि । एतानि च पूर्वोदाहरण इव न वस्तुकार्याणि किंतु तन्निरीक्षणकार्याणि । 'लजा तिरश्चां यदि चेतसि स्वादसंशयं पर्वतराजपुत्र्याः। तं केशपाशं प्रसमीक्ष्य कुर्युालप्रियत्वं शिथिलं चमर्यः ॥' इत्युदाहरणान्तरे तथैव स्पष्टम् । अङ्गानामकठोरतेति तृतीयपादे तु वर्णनीयाङ्गसौकुमार्यातिशयनिरीक्षणकार्यत्वमपि नाक्षेप्यमालतीकठोरस्वे विवक्षितं प्रतियोगिविशेषापेक्षकठोरत्वस्य तदकार्यत्वारिंतु तद्बुद्धेरेव । इदमपि त्वदङ्गमार्दवे दृष्ट इत्याधुदाहरणान्तरे तथैव स्पष्टम् । अर्थस्य कार्य- स्व इव बुद्धः कार्यत्वेऽपि कार्यनिबन्धनत्वं न हीयत इति । एतादृशान्यपि कामिन्या गतिसौकुमार्य दृष्टं चेदित्यध्याहारेणान्वयः। एवं संलापो भाषणं यदि श्रुतस्तदा परमृतैः कोकिलैः चाचं यच्छतीति तथा तस्य भावो मौनमेव व्रतं धार्यतां साध्यताम् । अकठोरता मार्दवं यदि दृश्यते तदा सा प्रसिद्धा मालती दृषप्रायैव पाषाणतुल्यैव लक्ष्यत इति । कान्तिदेष्टा चेत्तदा कमला लक्ष्मीः का- षायं वस्त्रमालम्बतामाश्रयतु । किमत्र बहुनोफेनेत्यन्वयः । गत्यादिषु गतिसौ- न्यादिषु । संभाव्यमानान्युत्प्रेक्षमाणानि । पूर्वोदाहरणाद्वैलक्षण्यमाह-एता- नीति ॥ कार्याणीत्यर्थः॥ लजेति ॥ तिरश्चां पश्वादीनां चेतसि यदि लज्जा स्थात्तदा चमर्यों गोमृगाः पर्वतराज पुत्र्यास्त्र तथा रमणीयं केशपाशं प्रसमीक्ष्य वालाः केशाः प्रिया यासां तास्तथा तत्त्वं शिथिलं कुर्युरियन्वयः ॥ तथैव निरीक्षणकार्यलमेव ॥ अर्थाक्षेप्येति ॥ दृषत्प्रायखरूपार्थांक्षिप्तेत्यर्थः । इदमप्यप्रस्तुतबुद्धेः कार्यलमपि । अपिना प्रस्तुतबुद्धेः कारणत्वं प्रागुक्तं समु- चीयते । 'लदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशमृल्लेखाकदलीनां कठोरता॥' इति तुल्ययोगित्तायां प्रागुदाहृतम् । ननु कार्यरूपेणाप्रस्तुतेनार्थन यत्र प्रस्तुतं तत्कारणमवगम्यते सा कार्यनिबन्धना अप्रस्तुतप्रशसोच्यते । न चोदाहृतेषु तत्संभवः । मालतीकठोरखादेरप्रस्तुतस्यार्थस्याकार्यतायास्वयैव द- शितखात् । एवं प्रस्तुतस्य कामिनीगतिनिष्ठसौन्दयाविशयादेर्निरीक्षणस्यैव' का- रणत्वेने स्वरूपतस्तस्याकारणखादित्यत आह–अर्थस्येति ॥ अयमाशयः । अर्थस्या प्रस्तुतत्वे सुतरां तद्बुद्धेरप्रस्तुतलात्कार्यलाच न तावदप्रस्तुतकार्यखा- शासंभवः । अर्थवस्य प्रयोजनाभावेन लक्षणेऽनिवेशादव्यावर्तकलाच । नापि प्रस्तुतस्य कारणलांशस्थासंभवः । खरूपतस्तस्याहेतुत्वेऽपि ज्ञानस्य हेतुखादिति । ननु गतिसौन्दर्यादेनमेव हेतुर्न तु झाक्मानं गतिसौन्दर्यादि । तदभावेऽपि