पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अप्रस्तुतप्रशंसालंकारः२७ [ अलंकारचन्द्रिकासहितः । ८१ क्प्रत्यक्षसिद्ध पुण्यत्वेन निरूपितस्य लावण्यस्य प्रहाणं निमित्तीकृत्य तस्य चन्द्रसादृश्यस्वरूपोपचरिततत्सौहार्दवति भगवन्मुखे न्यसनमुठोक्षितम् । य- यपि सुहृद्धहुत्वे तावदल्पपुण्यसंक्रमो भवति तथापि अत्र सुहृदित्येकवचनेन भगवन्मुखमेव चन्द्रस्य सुहृद्भूतं न मुखान्तराणि चन्द्र सादृश्यगन्धस्यास्पदा- नीति भगवन्मखस्येतरमखेभ्यो व्यतिरेकोऽपि व्यक्षितः। ततश्च तस्मिन्नेव सर्वेषां स्वस्वथावल्लावण्यविन्यसनोप्रेक्षणेन प्राग्वर्णितः प्रस्तुतोऽर्थः स्पष्टमेव प्रतीयते। यद्यपि श्रुतौ सूर्यमण्डलप्रायनन्तरभाबिविरजानदीक्रमणानन्तर- मेव सुहृत्सुकृतसंक्रमणं श्रूयते तथापि शारीरकशास्त्रे तस्वार्थवशात्प्राग्भावः स्थापित इति तदनुसारेण विन्यस्य मिहिरं प्रति यान्तीत्युक्तम् । कार्यनिब- न्धना यथा- . नाथ वंदनिखधावनतोयलमा- . स्तकान्तिलेशकणिका जलधिं प्रविष्टाः । ता एव तस्य' मथनेन धनीभवन्त्यो . नूनं समुद्रनवनीतपदं प्रपनाः ।। अन्न भगवत्पादाम्बुजक्षालनरूपायां दिव्यसरियलक्तकरसादिवल्लग्नानां तया सह समुद्रं प्रविष्टानां तन्नखकान्तिलेशकाणकानां परिणामतया संभा- व्यमाने समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तनखकान्त्युत्कर्षः प्रतीयते । यथावा- अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं . ' संलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतम् । तस्य प्रिया ज्ञातयः सुकृतमुपयन्यप्रिया दुष्कृतम्' इति कौषीतकिश्रुतिः । 'स गावक्षिप्येन्सनस्ताबदादित्यं गच्छतीति स वायुमागच्छति स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदिलमागच्छति' इति च श्रुती स आदित्यमागच्छतीयनन्तरं 'स आगच्छति विरजां नदी तां मनसैवात्येति तत्सुकृतदुष्कृते विधुनुते' इति श्रुतौ ॥ शारीरकेति ॥ शरीरे भवः शारीरः स एव शारीरक आत्मा तत्प्रतिपादक इत्यर्थः । अर्थवशात्प्रयोजनवशात् । पूर्व पापादित्यागाभावेऽचिरादिमागंप्राप्तिपूर्व कब्रमप्राप्तेरसंभवेन पाठकमस्यार्थक्रमेण बाधादिति भावः ॥ स्थापित इति ॥ 'सांपराये तर्तव्याभावात्तथा झ्न्यः' इति तार्तीयाधिकरणे सिद्धान्तित इत्यर्थः ॥ नाथेति ॥ हे नाथ विष्णो, बञ्चरणन- खक्षालनजले गजारूपे लग्नाः तेषां नखानां कान्तिलेशकणिकाः समुद्र प्राप्ताः । ता एवं च कणिकास्तस्य जलधेर्मथनेन सान्द्रतां प्राप्ता नूनं समुद्रसंबन्धिनवनी- तस्य चन्द्रस्य पदं प्राप्ताः । चन्द्ररूपेण परिणता इत्यर्थः ॥ तया तारेण । तदित्य- नन्तरं हेतुरिति शेषः । तद्धेतुनखकान्त्युत्कर्ष इत्यर्थः ॥ अस्या इति ॥ अस्याः कुव०९