|
अङ्कधिरोपितमृगश्चन्द्रमा मृगलान्छनः। |
अन्न कृष्णं प्रति यलभद्रवाक्ये मार्दवदूषणपरे पूर्वप्रस्तावानुसारेण क्रूर एवं ख्यातिभाग्भवति नतु मृदुरिति सामान्ये वक्तव्ये तत्प्रत्यायनार्थमप्रस्तुतो विशेषोऽभिहितः। एवं बृहत्कथादिषु सामान्यतः कंचिदर्थ प्रस्तुत्य तद्विवरणार्थमप्रस्तुतकथाविशेषोदाहरणेष्वियमेवाप्रस्तुतप्रशंसा द्रष्टव्या ॥ कारणनिबन्धना यथा----
|
हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा। |
अन्नामाकरणिकेन्दुमण्डलगततयोप्रेक्ष्यमाणेन दमयन्तीवदननिर्माणार्थ सारांशहरणेन तत्कार्यरूपं वर्णनीयतया प्रस्तुतं दमयन्तीवदनगवलोकोत्तरं सौन्दर्य प्रतीयते । यथावा मदीये वरदराजस्तवे---
|
आश्रित्य नूनममृतघुतयः पदं ते |
अत्राप्राकरणिकचन्द्रकर्तृकतयोत्प्रेक्ष्यमाणेन लावण्यपुण्यनिचयविन्यासेन कारणेन तत्कार्यमनन्तकोटिचन्द्रलावण्यशालित्वमनन्यमुखसाधारणं भगवन्मुस्वे वर्णनीयतया प्रस्तुतं प्रतीयते । तथाहि चन्द्रास्तावन्मन्त्रलिङ्गाइद्धिक्षयाभ्यामभेदेऽपि भेदाध्यवसायाद्वा प्रतिमासं भिन्नत्वेन वर्णिताः।तेनातीताश्चन्द्रा अनन्तकोटय इति लब्धम् । कालस्यानादित्वात्सर्वेषां च तेषामाकाशसमाश्रयणं क्ष्लेषमहिम्ना भगवञ्चरणसमाश्रयत्वेनाध्यवसितम्। भगवञ्चरणं प्रपन्नानां च देहक्षयोपस्थितौ परमपदप्रायाभिमुख्यं तदानीमेव स्वसुहृद्वर्गे स्वकीयसुकृतस्तोमनिवेशनं ततः सूर्यमण्डलप्राप्तिश्चेत्येतत्सर्व श्रुतिसिद्धमिति तदनुरोधेन तेषां देहक्षयकालस्यामावास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तेः प्रा-
स्वर्णरेखा इति रूपकम् । तासां परीक्षणे निकषोपलः परोक्षमिति संज्ञितः कोऽप्यस्तीत्यन्वयः॥ अङ्केति॥चन्द्रमा मृगलाञ्छन इत्युच्यत इति शेषः। नित्रुरं क्षिप्तानि निरस्तानि मृगयूथानि येन तादृशः केसरी सिंहो मृगाधिप इत्युच्यत इति शेषः ॥ हृतेति ॥ धृतो गम्भीरायां खन्यां गर्ते स्वस्याकाशस्य नीलिमा येनेति मण्डलविशेषणम् ॥ आश्रित्येति ॥ हे देव, प्रतिमासं भिन्ना अमृतघुतयश्चन्द्रास्ते विष्णोः पदमाकाशमेव पदं चरणमाश्रित्य देहस्य क्षये उपनतं संपन्नं दिव्यपदस्याभिमुस्वत्वं येषामेवभूताः संतस्वदास्यरूपे सुहृदि मित्रे नूनं लावण्यखरूपस्य पुण्यस्य निचयं विन्यस्य मिहिरं सूर्य प्रति यान्तीत्यन्वयः ॥ मन्त्रलिङ्गादिति॥ मवो नवो भवति जायमानः' इत्यादिमन्त्रसामर्थ्यादित्यर्थः । मन्त्रस्य मानान्तरसिद्धार्थानुवादकलादाह-वृद्धीति ॥ श्रुतीति ॥ तत्सुकृतदुष्कृते विधुनुते