स्यैव व्यङ्गयत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वावश्यंभावेन व्यत्यनपेक्षणात् । यद्यपि प्रकृतार्थे प्रकरणबलाज्झटिति बुद्धिस्थे सत्येव पश्चान्नृपतितबाह्यधनादिवाचिनां राजकरादिपदानासन्योन्यसंनिधानबलात्तत्तद्विषयशक्त्यन्तरोन्मेषपूर्वक्रमप्रस्तुतार्थः स्फुरेत्। नचैतावता तस व्यङ्ग्य- त्वम् । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात्पर्यवसिते प्रकृतार्थाभिधाने पश्चात्स्फुरति चेत् कामं गूढक्ष्लेषो भवतु । अस्ति चान्यत्रापि गूढः क्ष्लेषः।
|
अयमतिजरठाः प्रकामगुर्वरिलघुविलम्बिपयोधरोपरुद्धाः। |
अत्र हि समासोक्त्युदाहरणयोः प्राकरणिकेऽर्थे प्रकरणवशाज्झटिति बुद्धिस्थे विशेषणसाम्यादप्रकृतोऽपि वृद्धवेश्यावृत्तान्तादिः प्रतीयते। तत्र समासोक्त्तिरभङ्गक्ष्लेष इति सर्वेषामभिमतमेव । एवमन्यत्रापि गूढक्ष्लेषे ध्वनिबुद्धिर्न कार्या । यथावा--
|
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः। |
व्यक्तिमूलस्य संभवात् । अलंकारस्येत्यस्योपलक्षणत्वात् । अन्योन्यसंनिधानबलात्परस्परार्थसंबन्ध्यर्थवाचकशब्दसमभिव्याहाररूपशब्दान्तरसंनिधिबलात् । तथा चाप्रकृतेऽप्यभिधानियामकमस्तीति भावः । एतावता पूर्वापरभावमात्रेण तस्याप्रकृतार्थस्य गूढक्ष्लेष इति । गूढत्वं चाप्रकृतत्वेन द्वितीयार्थस्य शीघ्रमप्रत्ययात् ॥ अयमिति॥माधे रैवतगिरिवर्णनम्। अयं गिरिस्तटीर्बिभतीत्यन्वयः। किंभूताः। अतिजरठा अत्यन्तं कठिनाः । प्रकामगुर्वीरतिमहत्यः। अलघुभिर्विलम्बमानैर्मेघैार्व्याप्ताः । निरन्तरं प्राणिनामगभ्यरूपाः। परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा यासुताः। वृद्धवेश्यापक्षे तु जरठा जीर्णाः। पयोधराः कुचाः ।अगम्याः सङ्गमायोग्याः।परिणते प्रकटे दिक्करिके यासां ता इत्यर्थः। दिक् वर्तुलं दशनक्षतम्।करिका नखक्षतम् । “दिग्दृष्टं वर्तुलाकारं करिका नखरेखिका' इति यादवः ॥ मन्दमिति ॥ ओषधीनां पत्युश्चन्द्रस्यासंनिधौ सत्यर्यमोपलाः सूर्यकान्ता मन्दीभूतमग्निं धृतवन्तः । तमः दर्शितः श्वयथुः पुष्टत्वं येन तथाभवत् । दृष्टयस्तिमिरजं दोषमान्ध्यं सिषेविरे । पक्षान्तरे ओषधिपतिवैद्यः । एवं मन्दाग्निलशोथतिमिराणि रोमविशेषाः । वृत्तान्तादिरित्यादिपदादोगिवैद्यवृत्तान्तः परिगृह्यते ॥ अभङ्गक्ष्लेष इति । तथाच क्ष्लेषस्थले व्यञ्जनाविरहादप्रकृते तत्स्वीकारे क्ष्लेषव्यवहारः सर्वेषामनुपपन्नः स्यादिति भावः ॥ रम्या इति ॥ माध एव द्वारकावर्णनम् । यस्यां द्वारकायां युवानो वधूभिः समं वलभीः प्रासादोपरितनगृहाण्यसेवन्त सेवितवन्तः । किंभूताः। रम्या इति हेतोः । पताका वैजयन्तीः प्राप्तवतीः । विविक्त्ता विजना इति हेतोः रागं रतिं वर्धयन्तीः । नमन्ति वलीकानि छादनप-