पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकरालंकारः २४ ] अलंकारचन्द्रिकासहितः। ७३ ज्यविशेषात्परिकर इत्यलंकारमध्ये परिगणित इत्याहुः । वस्तुतस्त्वनेकविशे- षणोपन्यास एव परिकर इति न नियमः। श्लेषयमकादिष्वपुष्टार्थदोषाभाबेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्परि- करोपपत्तेः। यथा- अतियजेत निजां यदि देवतामुभयतश्यवते जुषतेऽप्यघम् । क्षितिभृतैव सदैवतका वयं वनवताऽनवता किमहिन्द्गुहा ॥ अन्न हि पुरुहूतपूजोधुक्तानन्दादीन्प्रति भगवतः कृष्णस्य वाक्ये गोवर्ध- नगिरिरेव चास्माकं रक्षकत्वेन दैवतमिति स एव पूजनीयो न त्वरक्षकः पु- रुहूत इत्येवरं वनवतेति गोवर्धनगिरेविशेषणं काननवत्त्वाग्निझरादिम- स्वाञ्च पुष्पमूलफलंतृणादिभिरारण्यकानामस्माकममद्धनानां गवां चायमेव र. क्षक इत्यभिप्रायगर्मम् । एवमन्न साभिप्रायैक विशेषणविन्यासस्यापि विच्छि- त्तिविशेषवशादस्य साभिप्रायस्थालंकारत्वसिद्धावन्यनापि सुधांशुकलितोत्तै- स इत्यादौ तस्यात्मलाभो न निवार्यते । अपिच एकपदार्थहेतुकं काव्यलिङ्ग- मलंकार इति सर्वसंमतम् । तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालंका- रत्वं युक्तमेव ॥ ६२॥ शेति ॥ साभिप्रायेत्यर्थः ॥ दोषाभावेनेति ॥ अपुष्टार्थवस्य दोषवाभावे- नेत्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः। विच्छित्तिश्चमत्कृतिः । परिकरत्वोपपत्तेः परिकरस्यालंकारत्वोपपत्तेः। तत्र दोष- स्याप्रसत्या विच्छित्तिविशेषस्य तदभावप्रयुक्तलासंभवात्तत्प्रयोजकमलंकारल- मावश्यकमिति भावः । यमकस्थले उदाहरति--तथेति ॥ अतीति । निजां देवतामतिक्रम्य यदि यजेत अर्थाद्देवतान्तरं पूजयेत् तदोभयतो लोकद्वयाच्यवते भ्रश्यति । अघं पापमपि जुषते सेवते । प्राप्नोतीति यावत् । का निजा देवता तत्राह । वयं वनवता प्रशस्तवनयुक्तेन क्षितिभृता गोवर्धनगिरिणैव सदैवतका दैव- तसहिताः । स एवास्माकं दैवतमित्यर्थः । अनवता अरक्षकेण अहिट्ठहा इन्द्रेण। किं प्रयोजनमिति शेषः । अहिछत्रासुरः । 'अहिर्वृत्रासुरे सक्' इति विश्वः। नन्वेवं सति तत्रैवालंकारता स्यान्न तु सुधांशुकलितोतंस इत्यादावत आह- एवमिति ॥ विच्छित्तिविशेषेति दोषाभावप्रयुक्तविच्छित्तिव्यावृत्तेत्यर्थः । ननु यमकादावपि तादृशविच्छित्तिविशेषे मानाभावः । विच्छित्तिसामान्य तुं पर्युद- स्तदोषाभावेनाप्युपपन्नम् । आपत्कालपर्यदस्तस्य अच्छौचहीनतादोषस्याभावे- नेव तदानीमपि मृच्छौचकतरतिशयाधानमिति नालंकारखसिद्धिरित्यत आह- अपिचेति ॥ 'भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपर- म्परे गिरिसुताकान्तालयालंकृते । अद्याराधनतोषितेन विभुना युष्मत्सपर्थासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥' इत्यादौ मोक्षस्य महामो- हत्वे सुखालोकोच्छेदिनीत्येकपदार्थो हेतुरिति काव्यलिङ्गमलंकारत्वेन यथा स्वी- hor. .