पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकरालंकारः २४ ] अलंकारचन्द्रिकासहितः। परिकरालंकारः २४ अलंकारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ २ ॥ अन्न सुधांशुकलितोत्तंस इति विशेषणं तापहरणसामर्थ्याभिप्रायगर्भम् । यथावा- तव प्रसादात्कुसुमायुधोऽपि सहायमेवं मधुमेव लब्ध्वा । कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥ अत्र पिनाकपाणेरिति हरविशेषणं कुसुमायुध इत्यर्थलभ्याहमर्थविशेष च सारासारायुधत्वाभिप्रायगर्भम् । यथावा- - सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ अन शरीरविशेषणानि तस्य हेयत्वेनासंरक्षणीयत्वाभिप्रायगर्माणि । व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो नाभौ नाभवमच्युतस्य सुमहद्भाष्यं च नाभाषिषम् । गुणीभूतव्यङ्गयस्य प्रभेदभूतसमासोक्त्यलंकारप्रसङ्घात्तत्प्रभेदं परिकरालंकारं लक्षयति--अलंकार इति ॥ अलंकारत्वोत्कीर्तनं च दोषाभावेनैव गतार्थ- मिति शङ्कानिरासार्थम् । तत्प्रपञ्चनं चाग्रे करिष्यते । साभिप्राये प्रकृतार्थोपपाद- कार्थविषयकाभिप्रायपूर्वकं तथाभूतार्थव्यजक इति यावत् । इत्थंच प्रकृतार्थो- पपादकार्थव्यञ्जकविशेषणत्वं लक्षणं बोध्यम् । ध्वनावतिव्याप्तिवारणाय प्रकृता- र्थोपपादकेति, हेखलंकारवारणाय बोधकत्वं विहाय व्यञ्जकत्वनिवेशः । वक्ष्य- माणपरिकराङ्कुरालंकारवारणाय विशेषणेति । तत्र तु विशेष्यं तथेति नातिप्रस- भः॥ सुधांश्चिति ॥ सुधांशुना कलितः कृत उत्तंसः शेखरो येन स इति हर- विशेषणम् । 'उत्तंसः कर्णपूरे स्याच्छेखरे चावतंसवत्' इति विश्वः। सामर्थ्या- मित्रायं सामर्थ्यव्यञ्जकम् ॥ तवेति ॥ इन्द्रं प्रति कामस्योक्तिः। तव प्रसादा- कुसुमायुधोऽप्यहं मधु वसन्तमेवैकं मुख्यं सहायं लब्ध्वा पिनाको धनुर्विशेषः पाणौ यस्य तादृशस्यापि हरस्य धैर्यच्युतिं धैर्यस्खलनं कुर्याम् । अन्ये धन्विनो धनुर्धरा मम पुरः के । अगणनीया इत्यर्थः । कुसुमायुध इति विशेषणं चेत्स- न्वयः ॥ अर्थलभ्येति ॥ कुर्यामित्युत्तमपुरुषाक्षिप्तेत्यर्थः। अभिप्रायगर्भमभि- , प्रायपूर्वकम् । अतएवावयवार्थमात्र विश्रान्तवाद्धरपदेन न पौनरुक्त्यमपि ॥ सर्वेति ॥ सर्वेषामशुचीनां रक्तपूयरेतोविण्मूत्रादीनां निधानस्य स्थानभूतस्य । कृतघ्नस्य उत्तमानपानादिकृतोपकारनाशकस्य शरीरकस्य । शरीरकस्येति निन्दा- यां कप्रत्ययः । कृते तदर्थम् । तत्संरक्षणार्थमिति यावत् । विशेषणानि पूर्वार्धा- कानि । तस्य शरीरस्य ॥ व्यास्थमिति ॥ राजानं प्रति कवेरुक्तिः । हे देव

  • १'प्रायविशेषणे'.