सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
समासोक्त्यलंकारः २३ ] अलंकारचन्द्रिकासहितः।


गच्छेम। तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतुः । यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह क्ष्लिष्टसाधारणविशेषणसमर्पितयोर्भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादस्ति समप्राधान्यम् , तथाप्यग्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽङ्गीकार्यः । तथाहि यथा प्रस्तुतविशेष्येऽप्रस्तुतवृत्तान्तस्यान्वयायोग्यता तथैव बाऽस्तुतेऽपि जारादौ नास्ति प्रस्तुतवृत्तान्तस्यान्वययोग्यता । एवंच समप्रधानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरन्यतरस्यावश्यमारोपेऽभ्युपगन्तव्ये श्रुत एव प्रस्तुतेऽप्रस्तुतस्यारोपश्चारुताहेतुरिति युक्तम् । नन्वेवं सति विशेषणसाम्यादप्रस्तुतस्य गम्यत्वं समासोक्तिः।

'विशेषणानां साम्येन यन्त्र प्रस्तुतवर्तिनाम् ।
अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥'

 इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न संगच्छेरन् । प्रस्तुते क्ष्लिष्टसांधारणादिविशेषणसमर्पितानुरागपूर्वकवदनचुम्बनाद्यप्रस्तुतवृत्तान्तसमारोपमात्रस्य चारताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाधप्रस्तुतधर्मिव्यञ्जनानपेक्षणादिति चेदुच्यते । स्वरूपतोऽप्रस्तुतवृत्तान्तस्यारोपो न चारुता-


कथंन्विदर्थतोऽनुवादत्वेन व्याख्येयः । उपसंहराति--तस्मादिति ॥ मात्रपदेनाप्रस्तुतारोपव्यवच्छेदः । विघुन्नयनवत्समासकृतधौतप्राधान्याभावेऽपि विशेषणसामर्थ्यावगतस्याप्रस्तुतवृत्तान्तस्यार्थतः प्राधान्यमस्तीति शङ्कते--यद्यपीति॥ नन्वप्रस्तुतवृत्तान्ताभिन्नत्वेनावगतस्य प्रस्तुतवृत्तान्तस्य प्रस्तुत विशेष्येणान्वयात्कथमप्रस्तुतवृत्तान्तस्य प्राधान्यमिति शङ्कानिरासायाह-विशेष्येणैवेति ॥ नतु तद्विशेषणीभूतप्रस्तुतवृत्तान्तेनेत्येवकारार्थः । समाधत्ते-तथापीति॥अयमाशयः-नात्र क्ष्लिष्टादिविशेषणैः समर्पितः परनायिकामुखचुम्बनादिरूपोऽप्रस्तुतवृत्तान्तः प्रागेव कयापि व्युत्पत्त्याप्रस्तुतगतत्वेन भासते, यद्धलादप्रस्तुतजाराद्यारोपावगतिः स्यात् । अपितु ताटस्येनावगते तस्मिन्प्रस्तुतासंबद्धस्य कविसंरम्भगोचरखायोगात्प्रस्तुतसमारोपितत्वेन पर्यवसानमिति। नन्वेवं तर्हि प्रस्तुतवृत्तान्त- स्याप्यप्रस्तुतवृत्तान्ताश्रये धर्मिण्यन्वयोऽस्तु असंबद्धाभिधानप्रसङ्गपरिहारस्य तुल्यलादित्याशझ्याह-तथाहीत्यादि ॥ एवंच योग्यतारूप विनिगमकविरहे च मास्तु तर्हि कस्याप्यन्वयस्तत्राह-अवश्यमिति ॥ अन्यथासंबद्धाभिधानप्रसङ्गपत्तेरिति भावः । किं तर्हि विनिगमक तत्राह--शुत एवेति ॥ तथाच श्रुतप्रस्तुतार्थोपस्कारकतया चमत्कारहेतुत्वमेव विनिगमकमिति भावः। अप्रस्तुतस्याप्रस्तुतवृत्तान्तस्य ॥ नन्वेवमिति ॥ एवमप्रस्तुतसमारोपानङ्गीकारे॥ विशेषणानामित्यादि विद्यानाथोक्तं लक्षणम् । प्रस्तुतवर्तिनां विशेषणानां साम्येनेत्यन्वयः। ग्रस्तुते समारोपार्थम् । अप्रस्तुतधर्मिव्यञ्जनानपेक्षायामपि समारोप्यमाणवृत्तान्तविशेषणत्वार्थे तदपेक्षणान्न लक्षणासंगतिरित्याह--स्वरूपत इति ॥ खरूपतीऽप्रस्तुतसंबन्धित्वेनाज्ञायमानस्य। नन्वपेक्षासत्त्वेऽपि विशेषणसाम्यस्य तद्यञ्जना-