सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
कुवलयानन्दः । [समासोक्त्यलंकारः २३


रिस्फूर्तिस्तन समासोक्तिरलंकारः । समासेन संक्षेपेण प्रस्तुताप्रस्तुतवृत्तान्तयोर्वचनात् । उदाहरणमयमैन्द्रीति ॥ अन्नहि चन्द्रस्य प्राचीग्रारम्भलक्षणमुखसंबन्धलक्षणे उदये वर्ण्यमाने मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्तशब्दस्यारुणकामुकसाधारण्याचुम्बतीत्यस्य प्रस्तुतार्थसंबन्धमात्रपरस्य शक्यार्घान्तरसाधारण्याञ्च चन्द्रमाशब्दगतपुंलिङ्गेन ऐन्द्रीशब्दगतस्त्रीलिङ्गेन तत्प्रतिपायेन्द्रसंबन्धिरत्वेन चोपस्कृतादग्रस्तुतपरवनितासतपुरुषवृत्तान्तः प्रतीयते ।

 यथावा---

व्यावलगत्कुचभारमाकुलकचं व्यालोलहारावलि
 प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वाम्बुजम् ।
शश्वद्दत्तकरमहारमधिकश्वासं रसादेतया
 यसात्कन्दुक सादरं सुभगया संसेव्यसे तस्कृती ॥

 अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावलगत्कुचभारमित्यादि क्रियाविशेषणसाम्याद्विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते । पूर्वत्र विशेषणानि क्ष्लिष्टानि इह साधारणानीति भेदः । सारूप्यादपि समासोक्किदृश्यते । यथावा---


वगमानातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थ दर्शयति-समासेनेति ॥ वचनात्प्रतिपादनात् । लक्ष्ये लक्षणं संगमयति-अत्रेति ॥ प्रारम्भ आदिभागः। साधारण्याच्छिष्टत्वात् । यद्यपि चुम्बतीत्यत्र न क्ष्लेषस्तथाप्यर्थद्वयबोधकलमात्रेण तस्य साधारण्योक्तिः । उपस्कृतादिति साधारण्यादित्यस्य विशेषणम् । तत्र चन्द्रमःशब्दगतेन पुंलिङ्गेन नायकलाभिव्यक्त्या उपस्कारः । ऐन्द्रीति खरूपपरंतद्वतेन स्त्रीलिङ्गेन तदर्थस्य नायिकलामिव्यक्त्या ऐन्द्रीशब्दप्रतिपाद्येनेन्द्र संबन्धित्वेन च परकीयवाभिव्यक्त्येति बोध्यम् । वृत्तान्तो व्यवहारो मुखचुम्बनरूपः ॥ व्यावलादिति ॥ नायिकानुरक्तस्य कस्यचित्क्रीडालम्बनं कन्दुकं प्रत्युक्तिरियम्। हे कन्दुक, सुभगया सुन्दयों एतया नायिकया रसात्प्रीतिविशेषात्सादरमादरसहितं यथा स्यात्तथा यस्मात्संसेव्यसे तत्तस्मात्कृती धन्योऽसीत्यन्वयः।कथमित्याकाङ्क्षायां संसेवनक्रिया विशिनष्टि---व्यावल्गदित्यादिना॥ व्यावल्गन्विशेषत आसमन्ताञ्चलन्कुचभारो यत्र, तथा आकुलाः क्रीडावेशेनेतस्ततः पर्यस्ताः कचाः केशा यत्र, एवं व्यालोला दोलायिता हारावलियंत्र, तथा प्रेङ्खभ्यां चञ्चलाभ्यां कुण्डलाभ्यां शोभायुक्तं गण्डयुगलं यत्र, एवं प्रस्वेदयुक्तं वत्र्काम्बुजं यत्र, शश्वनिरन्तरं दत्तः करेण प्रहारो यत्र, तथा अधिकः श्वासो यत्र तथेति । वृत्तान्तः विपरीतरतरूपः। अत्रापि कन्दुकशब्दगतपुंलिङ्गेन नायकत्वाभिव्यक्तिर्बोध्या । क्ष्लिष्टानीति॥ क्ष्लेषमूलकाभेदाध्यवसायविषयाणीसर्थः ॥ साधारणानीति ॥ क्ष्लेषं विनैव प्रकृताप्रकृतवृत्तान्तयोरनुगतानोत्यर्थः । तथाच लक्षणे साम्यशब्देन क्ष्लेषकृतं खारसिकंच साम्यं विवक्षितमि-