पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समासोक्त्यलंकारः २३] अलंकारचन्द्रिकासहितः। ६५ तच्चेत्किचिद्विना रम्यं विनोक्तिः सापि कथ्यते। विना खलैर्विभात्येषा राजेन्द्र भवतः सभा ॥६०॥ यथावा- आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- नैंशस्यार्चिईतभुज इव च्छिन्नभूयिष्ठधूमा। मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गृहतीव प्रसादम् ॥ . अत्र तमःप्रभृतीन्विना निशादीनां रम्यत्वं विनाशब्दमन्तरेण दर्शितम् ६० समासोक्त्यलंकारः २३ समासोक्तिः परिस्फूर्तिः प्रस्तुते प्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तचुम्बति चन्द्रमाः॥६१ ॥ यन्त्र प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाम्यबलादप्रस्तुतवृत्तान्तस्यापि प. तञ्चेदिति ॥ तत्प्रस्तुतं किंचिद्विना रम्यं चेत्सापि विनोकिः कथ्यत इत्यन्वयः। इत्थंच किंचिद्यतिरेकेण प्रस्तुतस्य रम्यवारम्यलान्यतरवर्णनं बिनोफिरिति प्रकारद्वयसाधारण सामान्यलक्षणं बोध्यम् । यत्तु हृद्यो विनार्थसंबन्ध एव वि- नोक्तिः। हृद्यत्वं च विनाकृतस्य वस्तुनो रमणीयतारमणीयत्वाभ्यां भवतीत्या- . चीनरुक्तम् । तदयुक्तम् । कारणं विना कार्योत्पत्तिकथनरूपे विभावनालंकारे- ऽतिव्याप्तेारणाय विनार्थसंबन्धप्रयुक्तप्रस्तुतगतरमणीयलादेरपि लक्षणे निवेश- स्थावश्यकत्वादिति ॥ आविर्भूत इति ॥ मानवतीविषये नायकस्य परामर्शो- ऽयम् । इयं वरतनुरन्तः अन्तःकरणे मोहेन मानावेशेन मुक्तकल्पा ईषन्यून- मुक्ता लक्ष्यते। केव । पूर्व रोधसस्तटस्य पतनेन कलुषा अनन्तरं कालुष्यापग- मात्प्रसादं नैर्मल्यं गृह्णत्याश्रयन्ती गङ्गेव । तथा शशिनि चन्द्रे आविर्भूते उदिते सति तमसा भुच्यमाना रात्रिरिव । एवं छिन्नो नष्टो भूयिष्ठो धूमो यस्या एवं- भूता निशि भवस्य हुतभुजो बढेरार्चः शिखेवेति ॥ दर्शितमिति ॥ अर्थतो बोधितमित्यर्थः ॥ ६० ॥ इति विनोक्तिप्रकरणम् ॥ २२ ॥ समासोक्ति लक्षयति-समासोक्तिरिति । प्रस्तुते वर्ण्यमाने अप्रस्तुत- स्थाप्रस्तुतवृत्तान्तस्य परिस्फूर्तिश्चेत्तदा समासोक्तिरित्यन्वयः ॥ अयमिति ॥ इ- न्द्रस्येयमैन्द्री प्राची । मुखादिभागो वदनं च । रक्तो. रक्तवर्णोऽनुरक्तश्च । चु- म्बनं संबन्धो बक्रसंयोगविशेषश्च । अथाश्रुतलक्षणस्य वक्ष्यमाणे"असावुदयमा- रूढः कान्तिमानरक्कमण्डलः । राजा हरति सर्वस्य हृदयं मृदुलैः करैः ॥' इत्या- दिप्रकृताप्रकृतश्लेषेऽतिव्याप्तेराह-विशेषणसाम्यबलादिति ॥ विशेषणमा- साम्यबलादित्यर्थः। एवंच विशेषणमात्रसाम्यगम्याग्रस्तुतवृत्तान्तत्वंलक्षणं बो- ध्यम् । उदाहृतःषेचाप्रकृतनृपवृत्तान्तस्य विशेष्यवाचिना श्लिष्टेन राजपदेनाप्य