सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
कुवलयानन्दः । [विनोत्त्यलंकारः २२ ।


यथावा-

छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं
 मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह ।
आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकैः समं
 निद्रा गर्भगृहं सह प्रविशति क्लान्तेव काल्ताजनैः॥

जनरञ्जन इत्युक्तेरनेन साधं विहराम्बुराशेरित्यादौ न सहोक्तिरलंकारः ५७


विनोक्यलंकारः २२

विनो[]क्तिश्चेद्विना किंचित्प्रस्तुतं हीनमुच्यते ।
विद्या हृद्यापि सावद्या विना विनयसंपदम् ॥ ५९॥

यथावा-

यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
निन्दितः स भवेल्लोके स्वास्माप्येनं विगर्हते ॥

 अत्रच रामदर्शनेन विना हीनत्वं विनाशब्दमन्तरेणैव दर्शितम् ॥ ५९॥


गमनान्वयप्रतीतिः तदुक्तम्---'सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्’ इति ॥ छायेति ॥ ग्रीष्मर्तौ मध्याह्नवर्णनमिदम् । छाया पान्थैरध्वगैः समं सार्घ विटपिनां तरूणां तलं मूलप्रदेशं संश्रयते । कुत इत्याकाङ्क्षायामुत्प्रेक्षते--- श्रान्तवेति । श्रसश्चात्रातपातिशयकृतो वोध्यः । एवमग्रेऽपि । जडता शीतलता ग्लानेव सरोजलस्य मूलमधोदेशं मीनैर्मत्स्यैः सह याति गच्छति । ग्लानिर्बलापचयः । तथा अहिमा उष्णा अंशवः करा यस्यैर्वभूतस्य रवेदीधितिस्तप्तेव संतप्तेव सती लोकैः ससमपः जलानि आचामति पिबति । 'दीधितिः स्त्रियाम्' इत्यमरः । निद्रा क्लान्तेव सती कान्ताजनैः सह गर्भगृहमभ्यन्तरगृहं प्रविशति । तत्रैव तदुद्भवात् । क्लान्तिस्तेजोहानिः। सौकुमार्याविशयेन तत्सौलभ्यात्कान्तोपादानम् ॥ इत्यादाविति ॥ इन्दुमतीस्वयंवरे रघुवंशे 'अनेन साधं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥' इति पद्यम् । अत्र सहोक्तिचमत्कारिखानालंकाररूपेत्यर्थः ॥ ५८॥ इति सहोक्तिप्रकरणम् ॥ २१ ॥

विनोक्तिरिति ॥ किंचिद्विना प्रस्तुतं वर्ण्यं हीनं दुष्टमुच्यते चेत्तदा विनोक्तिनामालंकार इत्यर्थः॥ विद्येति ॥ विनयसंपत्तिं विना या विद्या सा हृद्या मनोरापि दुष्टेत्यन्बयः। अत्र प्रस्तुताया विद्याया विनयं विना दुष्टवमुक्तम्॥ यश्चेति॥ यः पुरुषः स्वात्मा खान्तःकरणं विगर्हते निन्दति । रामदर्शनं विनेति रामकर्मक रामकर्तृकं च दर्शनं विनेत्यर्थः ॥ अन्तरेणापीति ॥ विनापीत्यर्थः । तथाच । विनोक्तिरित्यर्थग्रहणं नत शब्दग्रहणमिति भावः॥ ५९॥ प्रकारान्तरमाह--


  1. विनोत्तिः स्यादिना