पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निदर्शनालंकारः १९ ] अलंकारचन्द्रिकासहितः। ५७ अनाबुधजनसेवाया अरण्यरोदनादीनां यत्तञ्यामैक्यारोपः ॥ ५३ ॥ पदार्थवृत्तिमप्येक वदन्त्यन्यां निदर्शनाम्। त्वनेत्रयुगुलं धत्ते लीलां नीलाम्बुजन्मनोः॥५४॥ अन्न नेत्रयुगुले नीलाम्बुजगतलीलापदार्थारोपो निदर्शना । यथावा- वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। अदृश्यत स खजूरीमञ्जरीगर्भरेणुषु । पूर्वस्मिन्नुदाहरणे उपमेये उपमानधर्मारोप इह तूपमाने उपमेयधर्मारोप इति भेदः। उभयत्राप्यन्यधर्मस्थान्यन्नासंभवेन तत्सदृशधमाक्षेपादौपम्ये पर्यवसानं तुल्यम् । इयं पदार्थवृत्तिनिदर्शना ललितोपमेति जयदेवेन व्या- हृता। यद्यपि वियोगे गौडनारीणामिति श्लोकः प्राचीनैर्वाक्यार्थवृत्तिनिदर्शना- यामुदाहृतस्तथापि विशिष्टयोधर्मयोरैक्यारोपो वाक्यार्थवृत्तिनिदर्शना । उपमानोपमेययोरन्यतरस्मिन्नन्यतरधर्मारोपः पदार्थवृत्तिनिदर्शनेति व्यवस्था- माश्रित्यास्माभिरिहोदाहृतः । एवंच। घेणम् । स्थले निर्जलप्रदेशे। अजं जलजम् । अषरे अङ्कुरायोग्यक्षारभूभागे । शुनः पुच्छं श्वपुच्छमवनामितमृजुतासंपादनाय नम्रीकृतम् । बधिरस्य कर्णे जप एव जापः । प्रलाप इत्यर्थः । अन्धस्य मुखे तत्संमुखं दर्पणो धृतः । इत्येवं निर- र्थकत्वेन सदृशानामनेकेषां वाक्यार्थानामबुधजनसेवनरूपप्रकृतवाक्यार्थे ऐक्या- रोपः पूर्वत्र त्वेकस्यैवैक्यारोप इति विशेषः ॥ ५३ ॥ निदर्शनान्तरमाह-प- दार्थेति ॥ पदार्थवृत्तिं पदार्थसंबन्धिनीम् । एके आलंकारिकाः । अन्यां पूर्वो- क्तलक्षणाम् ॥ त्वन्नेति ॥ लीलां शोभाम् । नीलाम्बुजन्मनोनीलोत्पलयोः । वियोग इति ॥ गौडदेशगतानां नारीणां विनोगे खकान्त वियोगकाले योग- ण्डतले पाण्डिमा पाण्डुवर्णो भवति स खरीणां लतानां मारीगर्भस्थेषु रेणुष्व- दृश्यत दृष्ट इत्यन्वयः । उपमाने यथोक्तरेणुरूपे उपमेये उपमानधर्मारोप एक पदार्थनिदर्शनायाः प्राचीनरुदाहरणात्कथमियं पदार्थनिदर्शनोच्यत इति शङ्का- यामाह-उभयत्रेति ॥ उपमेये उपमानधर्मारोपे उपमाने उपमेयधर्मारोपे चेत्यर्थः । तथा चौपम्यपर्यवसायिलस्यैव पदार्थनिदर्शनाजीवातुत्वेनारोपविषय- स्योपमेयत्वेन निवेशे प्रयोजनाभावादिहापि सा युक्तैवेति भावः । नन्वेवं सति वाक्यार्थनिदर्शनालक्षणस्यात्रातिव्याप्तिरित्याशयवानाह-यद्यपीति ॥ वियोग- कालीनगौडनारीगण्डतलपाण्डिन्नः खर्जूरीमञ्जरीगर्भरेणुदृष्टपाण्डिन्नश्च यत्तधा- मैक्यारोपसत्त्वादिति भावः । अर्थविशेष विवक्षयातिव्याप्ति परिहरनेव खाभिम- तनिदर्शनाद्वयविषयविभागं दर्शयति-तथापीति | विशिष्टयोबिम्बप्रतिबि- म्वभावापन्नधर्मविशिष्टयोः । एवंच वाक्यार्थशब्देनैतादृशार्थविवक्षणाद्वियोग इत्याधुदाहरणे नातिव्याप्तिरिति भावः ॥ उपमानेत्यादि ॥ एतच्च खरूपकथ- १ 'गर्मामप्यन्ये'. कुव. ७