पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः। [ निदर्शनालंकारः १९ धस्तलावधि संस्पर्शमात्रस्य विवक्षितत्वात् । भत्रोदाहरणे पदावृत्तिदीपका- द्विशेषः पूर्ववत्प्रस्तुताप्रस्तुतविषयत्वकृतो द्रष्टव्यः । वैधयेणाप्ययं दृश्यते । कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विपः । तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयादिमौलिताम् ॥ ५२ ॥ निदर्शनालंकारः १९ वाक्यार्थयोः सदृशयोरैक्यारोपो' निदर्शना। योतुः सौम्यता सेयं पूर्णेन्दोरकलङ्किता ॥ ५३ ॥ अत्र दातृपुरुपसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेन्दोरकलङ्कत्वस्योपमानवा- क्यार्थस्य यत्तह्मामैक्यारोपः ॥ यथावा- अरण्यरुदितं कृतं शवशरीरमुर्तितं स्थलेजमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामित बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ समाधत्ते-अत्रेति ।। पूर्ववत् अर्थावृत्तिप्रतिवस्तूपमयोरिव । प्रस्तुताप्रस्तुतेति दृष्टान्तः प्रलु ताप्रस्तुतविपयः, पदावृत्तिस्तु तदन्यतरमात्रविषयेत्यर्थः । यद्यप्य- त्रात्मनेपदपरस्मैपदभेदेन पदभेदान्न पदावृत्तिशयोचिता, तथापि पाठपरिवर्तनेन पदामेदेऽपि न पदावृत्तेरयं विषय इति बोधयितुमेतदुक्तम् । अयं दृष्टान्तः । कृतं चेति। नृपं प्रति मत्रिण उक्तिः । हे राजन् , लया मनो गर्वस्यामिमु- खं न तु गवतं कृतं च । किमन्यदपेक्षितमिति शेषः । एवं शस्त्रप्रयोगादिकं बिना नोऽस्माकं विषः शत्रको निहताश्च न तु निहनिष्यन्ते । अंशुमान् सूर्यों यावयादेमौलितां शिरोलंकारतां नायाति तावदेव तमांसि तिष्ठन्ति तस्मिस्तु तथाभूते न तिष्ठन्तीति दृष्टान्तः । अत्र मनोगर्वाभिमुखीकरणवैरिहननयोरंशुम- दुदयाचलमस्तकानागमनतम स्थियोश्च यथाक्रमं वैधण बिम्बप्रतिविम्बभावः 11 ५२ ॥ इति दृष्टान्तालंकारप्रकरणम् ॥ १८॥ निदर्शनां लक्षपति-वाक्यार्थयोरिति । सदृशवाक्वार्थसंवन्धी य ऐ- क्यारोपः, उपमेयवाक्यार्थे उपमानवाक्यार्थाभेदारोप इति यावत् ।। यद्दातुरि- ति॥ दानुः सौम्यतेति यदिति सामान्चे नपुंसकम् । सेयमिति विधेयाभि- प्रायकं स्त्रीलिङ्गम् । यत्तयामिति । यद्यपि मुखं चन्द्र इतिवद्दातुः सौम्य- ता पूणेन्दोरकलङ्कवेत्येतावताप्यैक्यारोपः संभवति तथापि यत्तयां शीघ्रं स्फु- टतया तदवममात्तदुपन्यासः ॥ अरण्येति ॥ अबुधो मूखों जनः सेवितः। यदिति गुणीभूतसेवन कियापरामर्शः। उत्तरवाक्यगतेन यच्छब्देन तच्छब्दाक्षे पात् । तदरम्यरुदितं कृतमित्याद्यन्वयः। उद्वर्तनं अवगोधूमादिचूर्णेन मलापक- १ रोपे निदर्शदा'. २ का दातु: