पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृष्टान्तालंकारः १८ ] अलंकारचन्द्रिकासहितः । - दृष्टान्तालंकारः १८. . चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः। त्वमेव कीर्तिमानाजन्विधुरेव हि कान्तिमान् ।। ५२ ॥ यत्रोपमानोपमेयवाक्ययोभिनावेव धर्मों बिम्बप्रतिबिम्बभावेन निर्दिष्टौ तन्न दृष्टान्तः । त्वमेव कीर्तिमानित्यत्र कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावः ॥ . यथावा- कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ यथावा-- देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुल क्लिष्टो मुरारिः कविः । अब्धिलडिन्त एव वानरभटैः किं त्वस्य गम्भीरता- मापाताल निमग्नपीवरतनु नाति मन्थाचलः ।। नन्वन्त्रोपसानोपमेयवाक्ययोनिमेक एव धर्म इति प्रतिवस्तूपमा युक्ता । मैवम् । अचेतने मन्थाचले ज्ञानस्य बाधितत्वेन तत्र जानातीत्यनेन सागरा- __ दृष्टान्तालंकारं लक्षयति-चेदिति ॥ वाक्ययोरित्यनुवर्तते । धर्मयोरित्यध्या- हार्यम् । तदिति तदेत्यर्थकम् । अर्थतो व्यावष्टे-योति ॥ यत्र काव्ये तथा चोपमानोपमेयवाक्यार्थघटकधर्मयोबिम्बप्रतिबिम्बभावो दृष्टान्त इति लक्षणम् ॥ काममिति ॥ अनेन प्रकृतराजविशेषेण । राजन्वती शोभनराजवतीम् । 'राज- न्वान्सौराज्ये' इति निपातः । नक्षत्राण्यश्चिन्यादीनि सप्तविंशतिः, तारास्तदितराः, गोबलीवर्दन्यायात् । ग्रहा भौमादयः । संकुला व्याप्ता । ज्योतिष्मतीति प्राश- स्त्ये मतुम् । अत्र राजन्वतीज्योतिष्मतीसनयोर्बिम्बप्रतिबिम्बभावः, पूर्वोदाहर- णे कीर्तिकान्योर्बिम्बप्रतिबिम्बभावप्रयोजक मनोहारिवरूपं सादृश्यमार्थमिह तु राजज्योतिषोः प्राशस्त्यरूपं तच्छान्दमिति भेदः ॥ देवीमिति ॥ देवीं वाचं सरखतीं बव उपासवे हि सेवन्त एव हि । हिशब्दस्यैवकारार्थत्वात् । तु परं भ नि सारमसौ प्रसिद्धो गुरुकुले क्लिष्टोऽध्ययनश्रमवान्मुरारिनामा क- विनितरामतिशयेन जानीते । अत्र दृष्टान्तमाह। वानररूपैर्भटर्योद्धामिरब्धिलेड़ित एव किं वस्याब्धेगम्भीरतां पातालपर्यन्तनिमन्ना पीवरा स्थूला तनुर्यस्यैवंविधो मन्थाचलो मन्दराद्रिरेव जानातीति । दृष्टान्तोदाहरणलासङ्गतिमाशङ्कते----- नन्विति ॥ वाक्ययोरिति सप्तमी । एकधर्म इत्यनन्तरं शब्दभेदेन निर्दिष्ट इति शेषः । सागरस्याधस्तनो योऽवधिरिति गम्भीरतापदार्थकथनं । संस्पर्शस्तु लक्षणया जानात्यर्थ इति बोध्यम् । तथाच धर्मभेदान प्रतिवस्तूपमा कितु सारस्वतसार ज्ञानसागराधतालावधिसंस्पर्शयोर्बिम्बप्रतिबिम्बभावादृष्टान्तालंकार एवेत्याशयः। 'वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी' इविवत्पदावृत्तिदीपक स्थादित्याशा