सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
दृष्टान्तालंकारः १८ ] अलंकारचन्द्रिकासहितः ।


दृष्टान्तालंकारः १८

चेद्विम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः।
त्वमेव कीर्तिमानाजन्विधुरेव हि कान्तिमान् ॥ ५२ ॥

 यत्रोपमानोपमेयवाक्ययोभिन्नावेव धर्मों बिम्बप्रतिबिम्बभावेन निर्दिष्टौ तन्न दृष्टान्तः । त्वमेव कीर्तिमानित्यत्र कीर्तिकान्त्योर्बिम्बप्रतिबिम्बभावः ॥

यथावा-

कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥

यथावा--

देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
 जानीते नितरामसौ गुरुकुल क्लिष्टो भुरारिः कविः ।
अब्धिलडिधत एव वानरभटैः किं त्वस्य गम्भीरता-
 मापाताल निमग्नपीवरतनु नाति मन्थाचलः ॥

 नन्वन्त्रोपसानोपमेयवाक्ययोनिमेक एव धर्म इति प्रतिवस्तूपमा युक्ता । मैवम् । अचेतने मन्थाचले ज्ञानस्य बाधितत्वेन तत्र जानातीत्यनेन सागरा-


 दृष्टान्तालंकारं लक्षयति-चेदिति ॥ वाक्ययोरित्यनुवर्तते । धर्मयोरित्यध्याहार्यम् । तदिति तदेत्यर्थकम् । अर्थतो व्याचष्टे-यत्रेति ॥ यत्र काव्ये तथा चोपमानोपमेयवाक्यार्थघटकधर्मयोबिम्बप्रतिबिम्बभावो दृष्टान्त इति लक्षणम् ॥ काममिति ॥ अनेन प्रकृतराजविशेषेण । राजन्वती शोभनराजवतीम् । 'राजन्वान्सौराज्ये' इति निपातः । नक्षत्राण्यश्चिन्यादीनि सप्तविंशतिः, तारास्तदितराः, गोबलीवैर्दन्यायात् । ग्रहा भौमादयः । संकुला व्याप्ता । ज्योतिष्मतीति प्राशस्त्ये मतुप् । अत्र राजन्वतीज्योतिष्मतीसनयोर्बिम्बप्रतिबिम्बभावः, पूर्वोदाहरणे कीर्तिकान्योर्बिम्बप्रतिबिम्बभावप्रयोजकं मनोहारिवरूपं सादृश्यमार्थमिह तु राजज्योतिषोः प्राशस्त्यरूपं तच्छान्दमिति भेदः ॥ देवीमिति ॥ देवीं वाचं सरस्वतीं बहव उपासवे हि सेवन्त एव हि । हिशब्दस्यैवकारार्थत्वात् । तु परं सरस्वतीसंबन्धि सारमसौ प्रसिद्धो गुरुकुले क्लिष्टोऽध्ययनश्रमवान्मुरारिनामा कविनितरामतिशयेन जानीते । अत्र दृष्टान्तमाह। वानररूपैर्भटर्योद्धामिरब्धिलेङ्घित एव किं त्वस्याब्धेगम्भीरतां पातालपर्यन्तनिमन्ना पीवरा स्थूला तनुर्यस्यैवंविधो मन्थाचलो मन्दराद्रिरेव जानातीति । दृष्टान्तोदाहरणलासङ्गतिमाशङ्कते----- नन्विति ॥ वाक्ययोरिति सप्तमी । एकधर्म इत्यनन्तरं शब्दभेदेन निर्दिष्ट इति शेषः । सागरस्याधस्तनो योऽवधिरिति गम्भीरतापदार्थकथनं । संस्पर्शस्तु लक्षणया जानात्यर्थ इति बोध्यम् । तथाच धर्मभेदान्न प्रतिवस्तूपमा किंतु सारस्वतसारज्ञानसागराधस्तलावधिसंस्पर्शयोर्बिम्बप्रतिबिम्बभावादृष्टान्तालंकार एवेत्याशयः। 'वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी' इविवत्पदावृत्तिदीपक स्थादित्याशक्य