पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीपकालंकारः १५] अलंकारचन्द्रिकासहितः। संगतानि मृगाक्षीणां तडिद्विलसितान्यपि। . क्षणदयं न तिष्ठन्ति वनारब्धान्यपि स्वयम् ।। पूर्वत्र स्तुतिरिह निन्दा । इयं काव्यादर्श दर्शिता । इमां तुल्ययोगितां सिद्धिरिति केचिब्धवजगुः । यदाह जयदेवः- सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्ययोक्तये। युवामेवेह विख्यातौ त्वं बलैर्जलधिजलैः॥ इति । मतान्तरेष्वत्र वक्ष्यमाणं दीपकमेव ॥१७॥ दीपकालंकारः १५ वदन्ति वावर्णानां धर्मैक्यं दीपकं बुधाः । मदेन भाति कलभः प्रतापेन महीपतिः ॥४८॥ प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा--कलभमहीपालयोः प्र- स्तुताप्रस्तुतयोर्भानक्रियान्वयः । यथावा- मणिः शाणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। संगतानीति ॥ संगतानि संगमाः तडितां विद्युतां विलसितानि धनं निबिडं यथा स्यात्तथा आरब्धानीति संगमपक्षे, घनैर्मे धैरारब्धानीति च तडिद्विलसितप- क्षेऽर्थः। काव्यादर्शे एतन्नामकदण्डिकृतग्रन्थे। दर्शिता तुल्ययोगितापदवाच्यत्वेन निर्दिष्टा । केचिदालंकारिका व्यवजहुर्व्यवहृतवन्तः । ख्यातेषु गुणत्वेन प्रसिद्धेषु ॥ युवामेवेति ॥ इह भूलोके । वलैः सैन्यैः । अत्रच सैन्यजलयोः प्रसरणशीलखा- दिसादृश्याद्विम्वप्रतिबिम्बभावेनामेदमाश्रित्य धमक्यं बोध्यम् । मतान्तरेष्विति बहुवचनेन बहसंमततया दण्ड्युक्ततुल्ययोगितानामखरसो ध्वन्यते । सच दीपकतुल्ययोगितयोर्भेदकथनावसरे व्यक्तीभविश्यतीति संक्षेपः ॥ ४५ ॥ इति तुल्ययोगिताप्रकरणम् ॥ १४ ॥ दीपकं लक्षयति-वदन्तीति ॥ वर्ध्यावान्वितैकचमत्कारिधर्मो दीपकमि- त्यर्थः । उपमादिवारणायात्रापि पूर्ववलक्षणपरिष्कारो बोध्यः । कलभः करिशा- वकः॥ भानक्रियेति ॥ क्रियारूपैकधर्मान्वय इत्यर्थः । अत्रापि क्रियाविशेषणी- भूतयोर्मदप्रतापयोर्विम्बप्रतिबिम्बभावो बोध्यः ॥ यथावा मणिरिति ॥शाणेन निकषपाषाणेनोल्लीढ उल्लिखितो मणिः । तथा हेतिमिरायुधैर्निहतः कृतक्षतः समरे संग्रामे विजयशीलो योद्धा, मदेन क्षीणो नागो हस्ती, शरत्काले श्यानानि शुष्का- पण पुलिनानि जलनिर्मुक्ततटानि यास ताः सरितो नद्यः, कलामात्रावशिष्टश्चन्द्रः। सुरते मृदिता चुम्बनालिङ्गनाद्यपमर्दनम्लायिताङ्गी बाला नवयौवना वनिता स्त्री १ मेव हि विख्यातो.