अत्र वृश्चति सिंचत्यति इत्यध्याहारेण वाक्यानि पूरणीयानि । पूर्वोदाहरणं स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसायीति भेदः । इयं सरस्वतीकण्ठाभरणोक्ता तुल्यगिता ॥ ४६॥
|
[१]गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता । |
अत्र वर्णनीयो राजा शक्रादिभिर्लोकपालत्वेन समीकृतः । यथावा---
योऽपि निम्बं परशुना छिनत्ति योऽप्येनं मधुयुक्तेन सर्पिषा आज्येन सिंचति योऽप्येनं गन्धमात्याचरर्चतीति क्रमेणेत्वर्थः । उक्तप्रकारस्य तुल्ययोगितापदवाच्यत्वे वृद्धसमातिं दर्शयति -- इयमिति । तथाच वृद्धव्यवहाराननर्थस्तुल्चयोगिताशब्द इति भावः । अत्र केचिदाहुः-'नेयं तुल्ययोगिता पूर्वोक्ततुल्ययोगितातो मेदमर्हति वर्ण्यानामितरेषां वा' इत्यादिपूर्वोक्तलक्षणाक्रान्तत्वात् । एकानुपूर्वीबोधितवस्तुकर्मकदानमात्रलस्य परम्परया तादृशशब्दस्य वा धर्मस्यैक्यात् । 'यश्च निम्बम् इत्यत्रापि कटुत्ल विशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजकधर्मखसंभवात्' इति । तदेतदपेशलम् । तथाहि-यत्रानेकान्वयित्वेन ज्ञातो धर्मस्तेषामौंपन्यगमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोकप्रकारः । यत्रतु हिंताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतरद्योतकतया चमत्कृतिजनकत्वं तत्रापर इति भेदात् । नह्यत्र पराभूतिशब्दस्य तदर्यकर्मदानस्य वा परम्परया शत्रुमित्रगतत्वेन भानमपि तु क्ष्लेषबलादेकत्वेनाध्वतितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोक्तलक्षणाक्रान्तत्वम् । एतेन 'यश्च निम्बम्' इत्यत्र कटुलविशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजकधर्मत्वमिति निरस्तम् । वस्तुगत्या तद्धर्मलस्यालंकारतासंपादकलाभावात् । अन्यथा 'संकुचन्ति सरोजानि' इत्येतावतैव तुत्ययोगितालंकारापत्तेः । किं त्वनेकंगतत्वेन ज्ञायमानधर्मत्वस्यैव तुल्ययोगिताप्रयोजकलमिति तदभावे तदन्तर्गतिकथनमसमजसमेव । अयाप्युकोदाहरणयोस्तथा मारमस्वीत्याग्रहस्तथापि नपूर्वोतलक्षणस्यात्र संभवः । 'धर्मोऽर्थ इव पूर्णश्रीस्वयि राजन् विराजते।' इत्ति प्रकृतयोरुपमायामतिव्याप्तिवारमार्थमने कानुगतधर्मत्वपर्याप्तविषयितासंबन्धावच्छिन्नावच्छेदकताकचमत्कृतिजनकताश्रयवानविषयधर्मलमिति विवक्षायास्वत्रावस्यकत्वात्, प्रकृते च हितवाहितसादेर्विषयस्याधिकस्यानुप्रवेशादिति विभावनीयम् ॥गुणोत्कृष्टैरिति ॥ गुणैरुत्कृष्टाः श्रेष्वास्तैरित्यर्थः। समीकल साम्यं विवक्षित्वा । वच इति । वचनं क्यः प्रतिपादन मिति यावत् । अर्थात्तत्साधारणधर्मस्य । अन्येति । धर्मस्य वार्ण्यागतलादुक्तविलक्षणस्येत्यर्थः । पाशोऽस्यास्तीति पाशी वरुणः । 'प्रचेता वरुणः पाशी' इत्यमरः । श्रीदः कुबेरः। शक इन्द्रः। लोकपालपद चन्द्रादिषु रूडम् । राज्ञि तु योगमात्रेण प्रयुक्तम् ॥
- ↑ गुणोत्कृष्टैः समाह्नत्य'