पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

mcadokaalip alacLHDENatles nisteamvmady.vushinariandairiwara.womvedimanrasobitaudharicsMAa कुवलयानन्दः । तुल्ययोगितालंकारः १४ . अत्र वृश्चति सिंचत्यति इत्यध्याहारेण वाक्यानि पूरणीयानि । पूर्वोदाह- रणं स्तुतिपर्यवसायि, इदं तु निन्दापर्यवसायीति भेदः । इयं सरस्वतीकण्ठा- भरणोक्ता तुल्यगिता ॥ ४६॥ गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता । लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥४७॥ अत्र वर्णनीयो राजा शक्रादिभिर्लोकपालत्वेन समीकृतः । यथावा--- योऽपि निम्बं परशुना छिनत्ति योऽप्येनं मधुयुक्तेन सर्पिषा आज्येन सिंचति योऽप्येनं गन्धमात्याचरर्चतीति क्रमेणेसर्थः । उक्तप्रकारस्य तुल्ययोगितापदवा- व्यत्वे वृद्धसमातिं दर्शयति इयमिति । तथाच वृद्धव्यवहाराननर्थस्तुल्चयो। गिताशब्द इति भावः । अत्र केचिदाहुः-'नेयं तुल्ययोगिता पूर्वोक्ततुल्ययो- गितातो मेदमहति वा नामितरेषां वा' इत्यादिपूर्वोक्तलक्षणाक्रान्तलात् । एका- नुपूर्वीबोधितवस्तुकर्मकदानमात्रलस्य परम्परया तादृशशब्दस्य वा धर्मस्यै- क्यात् । 'यश्च निम्बम् इत्यत्रापि कटुत्ल विशिष्टनिम्बस्यैव परम्परया छेदकसेचक- पूजकधर्मखसंभवात्' इति । तदेतदपेशलम् । तथाहि-यत्रानेकान्वयित्वेन ज्ञा- तो धर्मस्तेषामौंपन्यगमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोकप्रकारः । यत्रतु हिं- ताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतरद्यो- तकतया चमत्कृतिजनकत्वं तत्रापर इति भेदात् । नात्र पराभूतिशब्दस्य त. दर्यकर्मदानस्य वा परम्परया शत्रुमित्रगतत्वेन भानमपि तु श्लेषबलादेकत्वेना- ध्वचितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोक्तलक्षणाक्रान्तलम् । ए- तेन 'यश्च निम्बम्' इत्यत्र कटुलविशिष्टनिम्बस्यैव परम्परया छेदकसेचकपूजक- धर्मत्वमिति निरस्तम् । वस्तुगत्या तद्धर्मलस्यालंकारतासंपादकलाभावात् । अ- न्यथा 'संकुचन्ति सरोजानि' इत्येतावतैव तुत्ययोगितालंकारापत्तेः । किं खने- कंगतत्वेन झायमानधर्मलस्यैव तुल्ययोगिताप्रयोजकलमिति तदभावे तदन्तर्ग- तिकथनमसमजसमेव । अयाप्युकोदाहरणयोस्तथा मारमस्वीत्याग्रहस्तथापि न . पूर्वोतलक्षणस्यात्र संभवः । 'धर्मोऽर्थ इव पूर्णश्रीस्वयि राजन् विराजते।' इत्ति प्रकृतयोरुपमायामतिव्याप्तिवारमार्थमने कानुगतधर्मवपर्याप्तविषयितासंब- न्धावच्छिन्नावच्छेदकताकचमत्कृतिजनकताश्रयवानविषयधर्मलमिति विवक्षाया- खत्रावस्यकलात्, प्रकृते च हितवाहितसादेर्विषयस्याधिकस्यानुप्रवेशादिति वि- भावनीयम् ॥गुणोत्कृष्टैरिति ॥ गुजैरुत्कृष्टाः श्रेष्वास्तरित्यर्थः। समीकल सा- म्यं विवक्षिला । वच इति । वचनं क्यः प्रतिपादन मिति यावत् । अर्थात्तत्सा- धारणधर्मस्य । अन्यति । धर्मस्य वावMगतलादुक्तविलक्षणस्येत्यर्थः । पाशो- ऽस्यास्तीति पाशी वरुणः । 'प्रचेता वरुणः पाशी' इत्यमरः । श्रीदः कुबेरः। शक इन्द्रः। लोकपालपद चन्द्रादिषु रूद्धम् । राज्ञि तु योगमात्रेण प्रयुक्तम् ॥ । 'गुपोत्कृष्टः समाइल'. aniindeandsatyarMarimnahamphasiritutecaut sumanAmaindermiribarurkashsulinarati-Niravindhiw