न्वयो दर्शितः । उत्तरक्ष्लोके नायिकासौकुमार्यवर्णने प्रस्तुतेऽप्रस्तुतानां मालत्यादीनां कठोरतारूपैकगुणान्वयः । यथावा-
|
संजातपत्रप्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् । |
अत्र ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पद्मानां चैकक्रियान्वयः। उरुवर्णने प्रस्तुतानां करिकराणां कदलीविशेषाणां चैकगुणान्वयः ॥४४॥४५॥
|
हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता। |
अत्र हिताहितयोर्मित्रशानवयोरुत्कृष्टभूतिदानस्य पराभवदानस्य च क्ष्लेषेणाभेदाध्यवसायावृत्तितौल्यम् । यथावा---
|
यश्च निम्बं परशुना यक्ष्चैनं मधुसर्पिषा । |
नुपपत्तिरिति । खैरिणी स्वेन ईरितुं शीलमस्यास्तादृशी। व्यभिचारिणीति यावत् । 'खादीरेरिणोः' इति वृद्धिः । 'स्वैरिणी पांसुला च स्यात्' इत्यमरः ॥ संजातेति ॥ दिनानि पानि च वृद्धिमीयुः प्रापुः । कीदृशानि । संजातैः पत्राणां प्रकरैः समुहैरन्वितानि । पूर्वपत्राणां वसन्तेन विगलनात् । तथा स्फुटा विकासिताः पाटला वृक्षविशेषा येषु तानि तेषां भावस्तत्त्वं समुद्वहन्तीति शत्रन्तम् । धानानीत्यर्थः । पद्मपक्षे तु स्फुटानि विकसितानि च तानि पाटलानि पाटलवर्णानि तेषां भावस्तत्त्वमित्यादि पूर्ववत् । एवमर्कस्य करैः किरणैरभिमर्शनाद्विकखराणि भासुराणि दिनानि । पद्मानि तु विकासशालीनि ॥ नागेन्द्रेति॥ नागेन्द्राणां गजश्रेष्ठानां हस्ताः शुण्डाः कदलीविशेषाश्च परिणाहो विशालता तच्छालि रूपं स्वरूपं लब्ध्वापि यथाक्रम त्वचि कर्कशलात्कठोरत्वादेकान्तेन नियमेन शैत्याच्च हेतोलोंके तस्याः पार्वत्या ऊोरुपमानाबाह्या उपमानत्वरहिता जाता इत्यन्वयः॥ तदीयत्वेनेति॥ तात्कालिकत्वेनेत्यर्थः । ग्रीष्मकालिकवस्तुवर्णनस्यैव प्रीष्मवर्णनरूपत्वादिति भावः । एकक्रियेति ॥ बृद्धिप्राप्तिरूपैकक्रियान्वये इत्यर्थः ॥ एकगुणेति ॥ उपमानबाह्यवरूपैकगुणेत्यर्थः ॥ ४४ ॥ ॥ ४५ ॥ हिताहिते इति ॥ हिताहितविषये इत्यर्थः । वृत्तितौल्यमिति । वृत्तिर्वर्तने व्यवहरणमिति यावत् । तस्य तौल्यं साम्यम् । अपरा पूर्वोक्तविलक्षणा । प्रदीयत इति । परा उत्कृष्टा भूतिः संपत्तिरेव, पराभूतिः पराभवः । शत्रूणां समूहः शात्रवम् । 'तस्य समूहः' इत्यण् ॥ पराभवदानस्येति ॥ शत्रुसंवन्धिपराभवसंपादनस्येत्यर्थः । पराभवस्य मुख्यदानासंभवात् । अतएव संप्रदाचलासंभवान्मित्रशात्रवयोरिति संबन्धसामान्ये षष्ठी । क्ष्लेषेण पराभूतिपदक्ष्लेषेण ॥ यथावेति ॥ अत्र चशब्दा अप्यर्था निरोधद्योतकाः ॥ अत्रेति ॥