सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
कुवलयानन्दः । [तुल्ययोगितालंकारः १४


तुल्ययोगितालंकारः १४

वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता।
संकुचन्ति सरोजानि खैरिणीवदनानि च ॥४४॥
त्वदङ्गमार्दवे दृष्टे कस्य चित्चे न भासते ।
मालतीचशमुल्लेखाकदलीनां कठोरता ॥४५॥

 प्रस्तुतानामप्रस्तुतानां वा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता । संकुचन्तीति प्रस्तुततुल्ययोगिताया उदाहरणम् । तत्र प्रस्तुतचन्द्रोदयकार्यतया वर्णनीयानां सरोजानां प्रकाशभीरुस्वैरिणीवदनानां च संकोचरूपैकक्रिया-


दण्डिनाप्युक्तम्--'अलंकारान्तराणामप्येकमाहुः परायणम् । वागीशसहितामुक्तिमिमामतिशयाह्नयाम् ॥ इति ॥ ४३ ॥ इत्यतिशयोक्तिप्रकरणम् ॥ १३ ॥

 तुल्ययोगितां लक्षयति- वर्ण्यानामिति ॥ वयस्वेन प्रस्तुतानामित्यर्थः । इतरेषामप्रस्तुतानाम् । एतच्चोभयमपि सावधारणम् । वव्योनामेवेतरेषामेव वेत्यर्थः । बहुवचनमनेकार्थकम् । द्वयोधमक्यस्यापि संग्राह्यला धर्मैक्यं धर्मस्य ऐक्यमेकलम् । एको धर्म इति यावत् । स च चमत्कारकारी बोध्यः । एवं चनिकत्रस्तुतमात्रसंबद्धैकचमत्कारिधर्मानैकाप्रस्तुतमात्रसंबद्धैकधर्मान्यतरत्वं लक्षणं बोध्यम् । मुखं विकसितस्मितम् इत्यादावतिप्रसङ्गवारणायानेकेति । अत्रच मुस्के प्रेक्षितादिरूपानेकवर्यसंबन्धो नैको धर्म इति तनिरासः । दीपकवारणाय मात्रेति । प्रस्तुताप्रस्तुतप्रसेदसाधारण्यायान्यतरवनिवेशः ॥ त्वदनेति ॥ प्रियां प्रति दयितोक्तिः। तवाङ्गस्य मार्दवे सौकुमार्ये इष्टे सति कस्य चित्ते माललादीनां कठोरता न भासते। अपितु सर्वस्यैवेत्यर्थः शर्श बिभर्तीति शशमृच्चन्द्रस्तस्य लेखा कला ॥ गुणक्रियारूपेति ॥ एतच्च तथाविधधर्मस्य प्रायशो गुणाक्रियारूपसमित्यमिप्रेत्योक्तं नतु लक्षणे तेन रूपेण धर्मस्य निवेशः । गौरवात्प्रयोजनामावाञ्च । यत्तु कैश्चिदेतद्वन्यदूषणलालसैधर्मस्य गुणक्रियारूपत्वेन स्वक्षणे निवेश इत्याशयमारोप्याभिहित, तदेतदापाततः 'शासति त्वयि हे राजनखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥’ इत्यत्राभावरूपधर्मस्यैवान्वयादिति । तदिदमापाततोऽपि न मनोरमम् । तथाहि। शासनीति त्वदुदाहृतपद्ये निश्चिन्तेति निश्चिन्तत्वमेदः शत्रुमित्रमण्डलधर्मतयोपात्तः,स त्र गुणस्वरूप एव । चिन्ताभाववद्भेदस्य चिन्तानतिरिक्तत्वात् । अन्यथा चिन्दामावामावस्याप्यतिरिक्तलापत्ते । अथ तत्रापि वैपरीत्यादिष्टापत्तिमालम्बसे, भवस्वेवं तुष्यतु भवान् । एवमप्यभावस्य कथं गुगबहिर्भावः । जातिक्रियाच्यातिरिक्चस्व चनुष्यी शब्दानां प्रवृत्तिरिति वदद्धियाकरणैस्तदनुसारिभिश्वालंकारिकगुपयारकारात् । अतएच जातिगुणयोर्विरोधे प्रकाशकृद्धिरुदाहतं "गिरयोऽप्यनुनातियुजः' इति। तथा विद्यानाथेनापि 'अमदः सार्वभौमोऽमी ति। बखतस्तु लक्षणेन तेन रूपेण धर्मस्य निवेशोऽमिप्रेत इत्यावेदिवमतो न काप्य-