पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिशयोक्त्यलंकारः १३ ] अलंकारचन्द्रिकासहितः। ४५ यथावा-- कवीन्द्राणामासन्प्रथमतरमेवाङ्गणभुव- .. श्चलभृङ्गासङ्गाकुलकरिमदामोदमधुराः । अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरूवीचीसहचराः ॥ एतास्तिस्रोऽप्यतिशयोक्तयः कार्यशैघ्यप्रत्यायनाः ॥ १३ ॥ ऽत्र वैपरीलम् । अग्रे प्रथममनुनीता समाहिता ॥ कवीन्द्राणामिति ॥ कविश्रेष्ठानामङ्गणसंबन्धिन्यो भूमयः प्रथमतरमेव प्रथममेव चलतां चपलानां मृङ्गाणां भ्रमराणामासझेनाकुलानां करिणां मदजलस्यामोदेन परिमलेन मधुरा रमणीया आसन्नभवन् । पश्चादनन्तरं तेषां कवीनामुपरि रुद्रसंज्ञकस्य नृपतेरमी दृश्यमानाः कटाक्षाः पतिताः । कीदृशाः। क्षीरमुदकं यस्य तथाभूतस्य क्षीराण- वस्य प्रसरन्तीनामुरुवीचीनां बृहत्तरशाणां सहचरास्तत्सदृशा इत्यर्थः। 'उदक- स्योदः संज्ञायाम्' इत्युदादेशः। अत्र यथोक्तकटाक्षरूपकार्यमुखेन नृपतिप्रसादरू- पहेतुकथनं पूर्वस्माद्विशेषः । एता अव्यवहितोक्काः । अथोकेषु प्रमेदेष्वनुगतन- वृत्तिनिमित्ताभावात्कथमतिशयोक्तिपदप्रयोग इति चेदत्राहुः। तावत्प्रभेदान्यत- मखमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेव च सामान्यलक्षणमिति । नव्यास्तु निगीर्याध्यवसानमेवातिशयोक्तिः प्रभेदान्तरं लनुगतरूपाभावादलंका- रान्तरमेव । नचान्यखादिप्रभेदेष्वन्यत्वादिभिरमेदादीनां निगरण संभवतीति वाच्यम् । अन्यलादिभिरभिन्नवस्तुप्रतीतेरेव चमत्कारित्वेनानुभवसिद्धतयान्य- लादिभिरमेदप्रतीसङ्गीकारेऽनुभवासकतेः । अन्यतमत्वं तु नालंकारविभाजको. पाधितां भजते चमत्काराप्रयोजकत्वादिति वदन्ति । वस्तुतस्तु रूपकभिन्नत्वे सति चमत्कृतिजनकाहार्यारोपनिश्चय विषयलमेवातिशयोक्तिसामान्यलक्षणम् । रूपकवारणाय सत्यन्तं, भान्तिवारणायाहार्येति, उत्प्रेक्षानिरासाय निश्चयेति । रूपकातिशयोक्तावभेदस्य द्वितीयप्रदेऽन्यखस्य तृतीये संबन्धस्य चतुर्थे असंब- न्धस्य पञ्चमे सहलस्य षष्ठे हेतुप्रसक्तिजन्यलस्य सप्तमे पूर्वापरत्वयोश्च तथा विरोधारोपविषयलसत्त्वात्सर्वत्र लक्षणसमन्वयः। नचैवंविधारोपस्य रूपकखभा- बोक्तिमिन्नेषु प्रायशः सालंकारेषु सत्वादतिप्रसङ्ग इति वाच्यम् । इष्टापत्तेः । अलंकारान्तराणां चमत्कारे प्रधानतया तदङ्गत्वेनावस्थिताया अतिशयोक्तेरणा- धान्येन व्यपदेशानहखात्। 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात् । अलंका- रान्तराणामेव प्रधानत्वेन व्यपदेशाहलात् । अतएव काव्यप्रकाशकृता विशेषा- लंकारप्रसङ्गेऽभिहितं 'सर्वत्रैवंविधै विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते । तांविना प्रायेणालंकारलाभावात्। अत एवोक्तम्-'सैषा सर्वत्र वक्रोक्तिरन- ग्रार्थो विभाव्यते । यत्नोऽस्यां कविभिः कार्यः कोऽलंकारोऽनया विना' ॥ इति । कुव.६