पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३. चपलातिशयोक्तिस्तु कार्य हेतुप्रसक्तिजे। यास्यामीत्युदिते तन्व्या वलयोऽभवदुर्मिका ॥४२॥ अत्र नायकप्रवासप्रसक्तिमात्रेण योषितोऽतिकार्य कार्यमुखेन दर्शितम् । ' यथावा- आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारअनवार्तयापि सहसा रक्तं तलं पादयोः । अङ्गानामनुलेपनसरणमप्यत्यन्तखेदावह हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते॥ यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्गयाः । गलितानि पुरो वलयान्यपराणि तथैव दलितानि ॥ ४२ ॥ अत्यन्तातिशयोक्तिस्तु यौवीपर्यव्यतिक्रमे । अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥४३॥ _ अत्यन्तातिशयोक्तिस्तु कार्ये हेतुप्रसत्तिजे । यास्यामीत्युदिते तन्व्या बल यीभवदुर्मिका ॥ suminine .indaas.15Pint/ चपलेति॥ हेतोः प्रसक्तिर्ज्ञानं तजन्ये कार्ये सतीत्यर्थः । यास्यामीति उदिते उक्ते। .. प्रियेणेति शेषः । तन्व्या ऊर्मिका अङ्गुलीयकं वलयः कङ्कणमभवदित्यर्थः। ऊर्मिका लगुलीये स्याद्वस्त्रमझतरङ्गयोः' इति विश्वः ॥ कार्यमुखेनेनि ॥ अङ्गुलीयकस्य...: कणपदप्राप्तिरूपकार्यवर्णनद्वारेणेत्यर्थः ॥ आदातमिति॥ सहजसौकुमार्यत- त्याः विरहदशायां तदतिशयवर्णन मिदम् । हन्तेति खेदे । आदातुं ग्रहीतुं सकृ. देकवारमपि कुसुमे ईक्षिते सत्यधीरदृशो हस्ताप्रमालोहितं भवतीति शेषः। अ- पिना किमु गृहीते इति गम्यते । लाक्षया यद्रजनं तद्वार्तयापि सहसाकस्मात्पा- दयोस्तलं रक्तं भवति किमु रजनेनेति पूर्ववत् । एवमशानां चन्दनादिना यद- नुलेपनं तत्स्मरणमप्यत्यन्तखेदकरं किमुतानुलेपनम् । किमन्यद्वाच्यमिति शेषः। . अलकानामगुरुधूपाद्यामोदोऽपि भारायते । भार इवांचरतीत्यर्थः । कर्तरि क्य.. ङ् । अत्रादानादिरूपहेतुप्रसक्तिमात्रेण हस्ताग्रलौहित्यादिरूपकार्योत्पतेः साक्षा- देव वर्णनं नतु कार्यमुखेनेति पूर्वस्माद्भेदः । हेतुकार्ययोरिव हेतुप्रसक्तिकार्ययो- रपि समकालत्वं संभवतीति सूचयितुमुदाहरणान्तरमाह-यामीति ॥ धो दयिते थामि न यामीति वदति सति तत्क्षणेन तत्कालमेव तन्वायाः पुरो वल- . यान्यग्रिमकङ्कणानि पुरः प्रथमं गलितानि । अपराण्यपि तथैव तत्कालमेव .. दलितानि भमानीत्यन्वयः। 'पुरोऽने प्रथमे च स्यात्' इति विश्वः। अत्र वद्- .. ति गलितानीति शतृप्रत्ययेन समकालतावगतिः ॥ ४२ ॥ अत्यन्तेति ॥ अत्र हेतुकार्ययोरित्यनुवर्तते । तत्पौर्वापयति क्वचित्पाठः साधुरेव । ब्यतिक्रमो- १'चपलातिशयो'.. २न्यतिक्रमे'. vneriotismARATAsini-padikeshavanities