पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिशयोक्त्यलंकारः १३ ] अलंकारचन्द्रिकासहितः । ४३ इति मुदसुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे॥ अत्र चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षयसंभावनाप्रयुक्तसंतोषासं- बन्धेऽपि तत्संबन्धो वर्णितः ॥ ३९॥ योगेऽप्ययोगः संबन्धातिशयोक्तिरितीर्यते । त्वयि दातरि राजेन्द्र स्वट्ठमान्नाद्रियामहे ॥ ४०॥ अत्र स्वर्द्धमेष्वादरसंबन्धेऽपि तदसंबन्धो वर्णित इत्यसंबन्धातिशयोक्तिः । यथावा- अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ ४० ॥ अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः । . आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ॥४१॥ - अत्र भौया यदा शरसंधानं तदानीमेव शत्रवः क्षितौ पतन्तीति हेतुका- ययोः सहत्वं वर्णितम् । यथावा- मुञ्चति मुञ्चति कोशं भजति च भजति प्रकम्पमरिचर्गः । हमीरवीरखनें त्यजति त्यजति क्षमामाशु॥ अत्र खङ्गस्य कोशत्यागादिकाल एव रिपूणां धनगृहत्यागादि वर्णितम् ॥११॥ नि सति चक्रवाकी इति मुदं संतोषमुपयाति प्राप्नोति । इति किम् । कृतं वास- रस्यावसानं नाशो येन स कनकगिरिः सुमेरुः कतिपयैरल्पैर्दिवसैः क्षयं प्रयाया- दिति संभावनायां लिङ्॥ ३९ ॥ योगेऽपीति ॥ योगे सत्यप्ययोगवर्णनमि- त्यर्थः । वर्गस्था द्रुमाः कल्पवृक्षादयः। खर्दुमेष्विति विषयसप्तमी । स्वर्द्वमवि- घये व आदरस्तस्य संबन्धेऽप्यर्थादर्थिषु यद्वा आर्थिषु खमविषयादरसंबन्धा- भावप्रतीतौ तत्समान वित्तिवेद्यतया स्वईमेष्वलादरविषयलाभावावगमाद्यथाश्रु- तमेव साधु ॥ अनयोरिति ॥ अनवद्यानि निर्दुष्टानि अङ्गानि यस्यास्तथाभूते इति संबोधनम्। जूम्भमाण योर्वर्धमानयोरनयोः स्तनयोस्तव बाहुलतयोरन्तरे मध्ये पर्याप्तोऽवकाशो नास्तीत्युन्वयः । अत्र बाहुलतयोरन्तरे स्तनपर्याप्तावका- शसंबन्धेऽपि तदसंबन्ध उक्तः ॥ ४०॥ अमेति ॥ क्रमः पौर्वापर्य तदभा- वोऽक्रमस्तद्रूपस्यातिशयोक्तिरित्यर्थः । सहत्वे समकालत्वे । आलिङ्गन्ति सम युगपज्या भौर्वी पृथ्वी च । पराः शत्रवः ॥ मुश्चतीति ॥ हमीरसंज्ञकस्य बी- रस्य खन्ने कोशं पिधानं मुश्चति सति अरीणां वर्गः समूहोऽपि कोशं भाण्डारं मुश्च- ति, तथा खड्ने प्रकम्पमुल्लासनं भजति सति स प्रकृष्टं कम्पं भजति । एवं खड़े क्षमा क्षान्ति सजति सति सोऽपि क्षमा पृथ्वी त्यजतीत्यर्थः । कोशोऽस्त्री.. कुडाले खज्ञपिधानेऽाँधदिव्ययोः' इत्यमरः । अत्र शतृप्रत्ययभजया योग- पद्यवर्णनं विशेषः ॥ धनगृहेति ॥ धनसंबन्धिगृहेत्यर्थः ॥ ४१ ॥ १'अयोगे'.