इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे॥
अत्र चक्रवाक्याः सूर्यास्तमयकारकमहामेरुक्षयसंभावनाप्रयुक्तसंतोषासंबन्धेऽपि तत्संबन्धो वर्णितः ॥ ३९॥
|
योगेऽप्ययो[१]गः संबन्धातिशयोक्तिरितीर्यते । |
अत्र स्वर्द्धमेष्वादरसंबन्धेऽपि तदसंबन्धो वर्णित इत्यसंबन्धातिशयोक्तिः ।
यथावा---
|
अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । |
|
अक्रमातिशयोक्तिः स्यात्सहत्वे हेतुकार्ययोः । |
अत्र भौर्व्या यदा शरसंधानं तदानीमेव शत्रवः क्षितौ पतन्तीति हेतुकार्ययोः सहत्वं वर्णितम् । यथावा---
|
मुञ्चति मुञ्चति कोशं भजति च भजति प्रकम्पमरिवर्गः । |
अत्र खङ्गस्य कोशत्यागादिकाल एव रिपूणां धनगृहत्यागादि वर्णितम् ॥४१॥
नि सति चक्रवाकी इति मुदं संतोषमुपयाति प्राप्नोति । इति किम् । कृतं वासरस्यावसानं नाशो येन स कनकगिरिः सुमेरुः कतिपयैरल्पैर्दिवसैः क्षयं प्रयायादिति संभावनायां लिङ्॥ ३९ ॥ योगेऽपीति ॥ योगे सत्यप्ययोगवर्णनमित्यर्थः । वर्ग०स्था द्रुमाः कल्पवृक्षादयः। खर्दुमेष्विति विषयसप्तमी । स्वर्द्वमविषये य आदरस्तस्य संबन्धेऽप्यर्थादर्थिषु यद्वा आर्थिषु स्वर्द्रुमविषयादरसंबन्धाभावप्रतीतौ तत्समान वित्तिवेद्यतया स्वर्द्रुमेष्वलादरविषयलाभावावगमाद्यथाश्रुतमेव साधु ॥ अनयोरिति ॥ अनवद्यानि निर्दुष्टानि अङ्गानि यस्यास्तथाभूते इति संबोधनम्। जूम्भमाण योर्वर्धमानयोरनयोः स्तनयोस्तव बाहुलतयोरन्तरे मध्ये पर्याप्तोऽवकाशो नास्तीत्युन्वयः । अत्र बाहुलतयोरन्तरे स्तनपर्याप्तावकाशसंबन्धेऽपि तदसंबन्ध उक्तः ॥ ४०॥ अक्रमेति ॥ क्रमः पौर्वापर्य तदभावोऽक्रमस्तद्रूपस्यातिशयोक्तिरित्यर्थः । सहत्वे समकालत्वे । आलिङ्गन्ति सम युगपज्या भौर्वी पृथ्वी च । पराः शत्रवः ॥ मुश्चतीति ॥ हमीरसंज्ञकस्य बीरस्य खङ्गे कोशं पिधानं मुञ्चति सति अरीणां वर्गः समूहोऽपि कोशं भाण्डारं मुश्चति, तथा खङ्गे प्रकम्पमुल्लासनं भजति सति स प्रकृष्टं कम्पं भजति । एवं खड़े क्षमां क्षान्ति त्यजति सति सोऽपि क्षमां पृथ्वी त्यजतीत्यर्थः । कोशोऽस्त्री.. कुडाले खङ्गपिधानेऽर्थौधदिव्ययोः' इत्यमरः । अत्र शतृप्रत्ययभङ्गया योगपद्यवर्णनं विशेषः ॥ धनगृहेति ॥ धनसंबन्धिगृहेत्यर्थः ॥ ४१ ॥
- ↑ 'अयोगे'