पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ कुवलयानन्दः । [ उत्प्रेक्षालंकार

पूर्वोदाहरणे निमित्तभूतधर्मसंबन्धो गम्यः इह तूपात्त इति भेदः । वशब्दस्य सादृश्यपरत्वेन प्रसिद्धतरत्वादुपमैवास्तु । लिम्पतीचेत्यु लेपनकर्तुरुपमानत्वार्हस्य क्रियोपसर्जनत्ववदिह नखक्षतानामन्योपस स्योपमाबाधकस्याभावात् । उच्यते । उपमाया यत्र क्वचित्स्थितैरपि ने सह वक्तुं शक्यतया वसन्तनायकसमागतवनस्थलीसंबन्धित्वस्य दि स्यानपेक्षितत्वादिह तदुपादानं पलाशकुसुमानां नखक्षततादात्म्यसंग यामिवशब्दमवस्थापयति । तथात्व एवं तद्विशेषणसाफल्यात् । अ संभावनायामिवशब्दो दूरे तिष्ठन्देवदत्त इवाभातीति ।

        पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् ।
        तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः॥

अन्न तरङ्गाग्रैः फेनचन्दनस्य प्रेरणं पेषणतयोत्प्रेक्ष्यते । समुद्रादु चन्द्रस्य प्रथमं समुद्रपूरे प्रसूतानां कराणां दिक्षु व्यापनं च समुद्रोप नचन्दनकृतलेपनत्वेनोत्प्रेक्ष्यते । उभयत्र क्रमेण समुद्रप्रान्तगतफेनचर ञ्जीभवनं दिशां धवलीकरणं च निमित्तमिति फेनचन्दनप्रेरणकिरण योर्विषययोरनुपादानादनुक्तविषये स्वरूपोत्प्रेक्षे । येषां तूपात्तयोः स न्द्रयोरेव तत्कर्तृकपेषणलेपनरूपधर्मोत्प्रेक्षेति मतं तेषां मते पूर्वोक्त धर्मिणि धर्म्यन्तरतादात्म्योत्प्रेक्षा। इह तु धर्मिणि धर्मसंसर्गोस्प्रेक्षेति ऽवगन्तव्यः॥

         रात्रौ रवेर्दिचा चेन्दोरभावादिव स प्रभुः।
         भूमौ प्रतापयशसी सृष्टवान्सततोदिते ॥

रात्रौ रवेर्दिवा चन्द्रस्याभावः सन्नपि प्रतापयशसोः सर्गे न हेतुरिरि तद्धतुत्वसंभावनासिद्धविषया हेतूझोक्षा ॥ विवस्वतानायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः । भूतानि नखक्षतानीव बभुः शुशुमिर इत्सन्दयः॥ पूर्वेति ॥ धूमस्तोमा त्यर्थः। ननु लोके संभावनायामिवशब्दोन इष्ट इत्यत आह-अस्तिचे पिनष्टीवेति ॥ समुद्रस्तरङ्गाणामग्रभागैः फेनरूपं चन्दनं पिनष्टीव । इ स्फेनचन्दननादाय करैः किरणैः दिग्रूपा अझना लिम्पतीव । अनुलिम्पतीवेर समुद्रोपान्तेति ॥ समुद्रस्योपान्ते तटे यत्फेनचन्दनं तत्कृतं यत्तासा लेपर्ने वत्वेनेत्यर्थः। उभयत्र उभयोरुत्प्रेक्षयोः। येषामलंकारसर्वखकारादीन .. रावाविति । स प्रक्रान्तः प्रभुर्भूपतिः भूमौ रात्रौ रवेरभावाखेतोरिव चेन्दोरभावाखेतोरिक सततं निरन्तरमुदिते प्रतापयशसी सृष्टवान् । तवानित्यर्थः । रक्तावित्युदाहरणे भावरूपो हेतुरिह खभावरूप इति में विवस्वतेति ।। विवखता सुर्वेण खस्य गोसहस्रेण किरणसहस्त्रेण सम। मिश्रिता जनानां नेत्रापरनामधेया गावोऽप्यनायिषतेव नीता इव । यथा।