पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्प्रेक्षालंकारः १२ ] अलंकारचन्द्रिकासहितः। ३५

जलावस्थितेरुदवासतपस्त्वेनाध्यवासितायाः कामिनीचरणसायुज्यप्राप्तिर्न फल- मिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोत्प्रेक्षणादसिद्धविषया फलोत्प्रक्षा। अनेनैव क्रमेणोदाहरणान्तराणि ।

      बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिलोहितानि ।
      सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ।

अत्र पलाशकुसुमानां वक्रत्वलोहितत्वेन संबन्धेन निमित्तेन सद्यःकृतन- खक्षततादात्म्यसंभावनादुक्तविषया स्वरूपोत्प्रेक्षा ॥

हेतोश्च खप्रयोज्याश्रयत्वसंबन्धेन रक्तत्वविशिष्टे तस्य प्रकारतासंबन्धेन संभाव- नायां तस्याश्च विषयतया चरणयोरन्वयः । तथाच भूम्याधिकरणकविक्षेपणामि- न्नहेतुकरक्तप्रकारकसंभावनाविषयावङ्गी इति बोधः । नव तादात्मन्यसंबन्धेन हेतुविधेयकत्वाभावान्नेयं हेतूत्प्रेक्षा स्यात्किंतु तादात्म्येन तथाविधरक्तस्वरूपोत्प्रे- क्षैवेति वाच्यम् । विवक्षितविवेकेन विक्षेपणे हेत्वमेदस्योत्प्रेक्षणीयतया विक्षेपणं प्रति विशेष्यभूतस्यापि हेतोर्विधेयत्वोपगमात् । मुखं चन्द्र इत्यादिरूपक इवानु- योगित्वमुखस्याभेदस्य विक्षेपणसंसर्गत्वाभ्युपगमेन च विक्षेपणे हेत्वमेदभानसं- भवात् । हेतुविशिष्टखरूपोत्प्रक्षाया मुखतः प्रतीतावपि विवक्षावशेन हेतूत्प्रेक्षा- त्वेनैव व्यपदेशः। यथा 'दध्ना जुहोति' इत्यत्र मुखतो दधिविशिष्टहोमप्रतीता- वपि विवक्षितविवेकेन होमे दधिविधित्वव्यपदेश इति बोध्यम् । नच स्वप्रयो- ज्यत्वसंबन्धेन स्वप्रयोज्याश्रयत्वसंबन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव रक्तादौ स्वीकि- यतां कृतमीदृशकल्पनाक्लेशेनेति वाच्यम् । धर्मोत्प्रेक्षाङ्गीकारे दूषणस्य प्रागेवावे- दितत्वात् । अतएव 'हर्षाल्लग्ना (मन्ये) ललिततनु ते पादयोः पद्मलक्ष्मीः' इति हेतूत्प्रेक्षामुदाहृतवतः प्रकाशकृतोऽपि तत्र हर्षहेतुकलगनतादात्म्यसंभावनमेव- स्वाभाविके लगनेऽभिमतम् । अस्मदुक्तरीत्या तु लक्ष्मीरूपे विषये यथोक्त- हर्षहेतुकलगनतादात्म्यसंभावनमुचितम् । लगनस्य धर्म्युपसर्जनत्वेन संभावना- यामन्वयायोगादिति ध्येयम् । एवं त्वन्मुखामेच्छया इत्यसिद्धविषयहेतूत्प्रेक्षाया- मपि बोध्यम् । विषयसिद्धत्वासिद्धत्वाभ्यां बोधे विशेषाभावात् । मध्यः किमि- त्यादिफलोत्प्रेक्षास्थले फलं चतुर्थ्यर्थः । तत्र चामेदेन प्रकृत्यर्थान्वयः पूर्ववत् । फलस्य च प्रयोजकत्वसंसर्गेण बद्धत्वे तद्वारकेण तेनैव बद्धे वान्वयस्तत्तादात्म्य- संसर्गकसंभावनाया मध्ये विषयतया। एवं च कुचधारणाभिन्नफलककनकदामक- रणकबद्धत्वाश्रयसंभावनाविषयो मध्य इति बोधः । एवं प्रायोऽब्जमित्यादावपि फलं तुमुनोऽर्थ इति पूर्ववदेव बोधः फलोत्प्रेक्षात्वं चोपदर्शितरीत्योपपादनी- यमिति बहुवक्तव्येऽपि विस्तरभयादुपरम्यते ॥ बालेन्दुवकाणीति ॥ न विध्येते- विकासो येषां तान्यविकासानि तेषां भावाद्विकासरहितत्वाद्धेतोर्बालेन्दुवत् द्वितीयाचन्द्रवद्वक्राणि तथातिशयेन लोहितान्यारक्तानि पलाशानि पलाशकुसु- मानि वसन्तेन नायकेन समागमं प्राप्तानां वनस्थलीनामङ्गनानां सद्यस्तत्कालसं. . .........rinki - ki-