पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्दीक्षितैश्चतुरधिकशतं १०४ ग्रन्थाः प्रणीता इति श्रूयते तेषामेकतमो. ऽयमलंकारशास्त्रविषयो ग्रन्थः। अत्र श्रीजयदेवप्रणीतं चन्द्रालोकमेव मूलतया परिगृयोपमादिहेत्वलंकारान्ताः शतमलंकारा निरूपिताः। अग्रे च रसवदादयः संकरसंकरान्ताश्चतुर्विंशतिरलंकाराः खातयेणैव निरूपिताः । एतच मूल एव ग्रन्थकृता दर्शितम्- 'येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः। प्रायस्त एव तेषामितरेषां त्वमिनवा विरच्यन्ते' इति । सोऽयमलंकारशास्त्रमध्येतॄणामुपयोगायालंकारचन्द्रिकाख्यया टीकया सहितः प्राचीनैत्रैिः पुस्तकैः संवाद्य पाठभेदटिप्पणीभिश्च संयोज्यैतदन्तर्गतानां सर्वेषा- मपि श्लोकानामकारादिवर्णक्रमेण सूची च प्रदर्थ परिष्कृतोऽध्येतॄणामुपकाराम प्रभूयादित्साशास्त्रे- विदुषामनुचरः पणशीकरोपाहो वासुदेवशर्मा ।