पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

BAOHIY अत्रेषत्प्रास्ताविकम् । अथ प्रकाश्यतेऽयमस्माभिः कुवलयानन्दोऽलंकारचन्द्रिकया युतः सकलजन- मनःप्रमोदमाधातुम् । अस्य कर्तुः सुगृहीतनान्नः श्रीमदप्पय्यदीक्षितस्येतिवृत्तं न किंचित्समासादितमस्माभिरितिहाससाधनविधुरैरिति । केवलमैतिहमालम्ब्य किं- चिदिवान विलिखामः। अयं हि पण्डितो द्रविडजातीयः सकलश्रौतस्मातक्रियाक- लापनिपुणः सर्वतन्त्रखतन्त्रप्रतिभः कदाचित्काशीगतः प्रभाते कृतभागीरथीस्नानो निवर्तितप्रातराहिकः खभवनं प्रत्यागच्छन् घट्टे शयानं कंचन युवतीदत्तकण्ठग्रहं. प्रावृताखिलशरीरमपि बहिनिःसृतविस्त्रसाश्वेतशिखं पुरुषमद्राक्षीत् । अवादीच तं क्रोधविस्मयकरुणाभिर्युगपदभिभूतचेताः---- "किं निःशवं शेषे शेषे वयसि त्वमागते मृत्यौ' इति । तदाकर्ण्य यावदुत्क्षिप्य पटमवलोकयति वक्तारं स शयानः पुरुषस्तावदिम पण्डितराज जगन्नाथमभिज्ञाय श्रीमदप्पय्यदीक्षित उत्तरार्धमिदं पपाठ । अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी भवतः' इति । एवं किंवदन्या पण्डितराजसमकालीनलमस्यावगम्यते । पण्डितराजस्तु 'शहाजहानाभिधयवनसार्वभौमस्य संसदि प्रवेश लब्धवान् । अधिगतबांच निज विद्याचमत्कारपरितोषितात्तसादेव पण्डितराजपदवीम् । स्थितश्च प्रथमे वयसि प्रायस्तत्रैव तत्समीपे तत्सूनो राशिकोहस्य समीपे । शहाजहानमही- पतिस्तु १६२८ तमे ख्रिस्ताब्दे राजसिंहासनमधिरूढः, १६५८ तमे निस्वान्दे औरंगजेबनाना स्वपुत्रेण कारागृहे निवेशितः, १६६६ तमे निस्ताब्दे च पश्चलं गतः। पण्डितराजोऽपि वार्धके मथुरायां श्रीकाश्यां च गया परमेश्वरा- राधनेन वयःशेष नीतवान् । तस्मात् निस्ताब्दीयसप्तदशशतकमध्ये पण्डित- राज आसीदिति सुव्यक्तमेव' इति निर्णीतवान् रसगङ्गाधरभूमिकायां जय- पुरस्थो दुर्गाप्रसादनामा पण्डितः। तेनास्य कुवलयानन्दस्य प्रणेतुः श्रीम- दप्पय्यदीक्षितस्य जीवनकालोऽपि निस्ताब्दीयसप्तदशशतकमेवेत्यवसीयते ।