पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रतीपालङ्कारः ४]
१३
अलंकारचन्द्रिकासहितः ।

वर्ण्योपमेयलाभेन तथान्यस्याप्यनादरः ।
क: क्रौर्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ॥१४॥

अत्युत्कृष्टगुणतया क्वचिदप्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं परिकल्प्य तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम् ॥ यथावा-

अहमेव गुरुः सुदारुणानामिति हालाहल मास्म तात दृष्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥ १४

}}॥</poem>}}

वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत् ।।
| मुधापवादो मुग्धाक्षि त्वन्मुखाभं किलाम्बुजम् ॥१५॥

अवण्यें वर्ण्योपमित्यनिष्पत्तिवचनं पूर्वेभ्य उत्कर्षशालि चतुर्थ प्रतीपम् । उदाहरणे मुधापचादत्वोत्योपमित्यनिष्पत्तिरुद्धाटिता । यथावा---

आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।।
शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥ १५ ॥

प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते ।।
दृष्टं चेद्वदनं तस्याः किं पद्मेन क्रिमिन्दुना ॥ १६ ॥

उपमेयस्यैवोपमानप्रयोजनधूर्वहत्वेनोपमानकैमर्त्यमुपमानप्रातिलोम्यात्प-.

ञ्चमं प्रतीपम् । यथावा----


हेत्वर्थे । अव्ययानामनेकार्थत्वात् । पूर्वोदाहरणे कान्त्येति समानधर्मोपादानमिह तु नेति भेदः ॥ १३ ।। वर्ण्योपमेयेति ॥ अन्यस्य वर्णस्य । अनादरोऽपि तथा। प्रतीपमित्यर्थः ॥ अहमेवेति । सुदारुणानामतितीव्राणाम् । गुरुः श्रेष्ठः । तातेति सानुकम्पसंबोधने । मास्म दृष्य इति । दर्पं मा कृथा इत्यर्थः ॥ १४ ॥ वर्ण्येनान्यस्येति ॥ निरूपितत्वं तृतीयार्थः । वर्ण्यनिरूपिता यान्यस्यावर्ण्य- स्योपमा तस्या इत्यर्थः । अनिष्पत्तिवचः उच्यमाना अनिष्पत्तिः । "कृदभिहिते" इति न्यायात्। तत् प्रतीपम् ॥ मुधेति । किलेति वार्तायाम् । त्वन्मुखाभ- मम्बुजमिति वार्ता मुधा निष्प्रयोजनोऽपबादः । अलीकार्थकत्वेनापवादस्य निष्प्र- योजनत्वम् ॥ उत्कर्षेति ॥ उपमानतिरस्कारातिशयप्रयोजकत्वरूपेयर्थः ॥ मुधापवादत्वोक्त्येति । उक्तार्थमेतत् ।। आकर्णयेति॥ वचनीयमलीकतथा निन्दितम् । अतएव भुवीत्युक्तम् । लोकान्तरे मुखसंनिधानेन बिशेषादर्शनाद लीकत्वग्रहायोगात् । संनिधानेऽपि विशेषाग्रहणात्पामरैरित्युक्तम् । अन्न वचनीयं पामरैरित्यैताभ्यामुपमितेरनिष्पत्तिः प्रकाश्यते॥१५॥ प्रतीपमिति ॥ कः अर्थः प्रयोजनं यस्य तत्तथा । अनर्थकमिति यावत् । तस्य भावः कैमर्थ्यं तदपि प्रतीपं मन्वते । आलंकारिका इति शेषः । ननूपमानस्य पद्मचन्द्वादेराह्लादविशेषरूपप्रयो- जनसत्त्वात्कथमनर्थकत्वमत आह-उपमेयस्यैवेति ॥ उपमानधूर्वहत्वेनो- १ ‘वर्ण्योपमानोप', २ ‘मिथ्यावादो हि मुग्धाक्षि'. ३ ‘भन्यते'.