पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[उपमालङ्कारः १
कुवलयानन्दः ।

तयोर्मध्ये पूर्वस्य गुणस्य शिरसा श्लाघनं शिरःकम्पेनाभिनन्दनमुत्तरस्य दो- षस्य कण्ठे नियमनं कण्ठदुपरि वाचानुद्धाटनमिति भेदात् । तथापि चन्द्र गरलयोर्गुणदोषयोश्च बिम्बप्रतिबिम्बभावेनाभेदादुपादानज्ञानादीनां गृह्णन्नि- त्येकशब्दोपादानेन भेदाध्यवसायाच्च साधारणधर्मतेति पूर्वस्माद्विशेषः । वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्नयोः पृथगुप- दानं बिम्बप्रतिबिम्ब्रभाव इत्यालंकारिकसमयः ॥ ६ ॥

वर्ण्योपमानधर्माणामुपमावाचकस्य च ।
एकद्वित्र्यनुपादोनैर्भिन्ना लुप्तोपमाष्टधा ॥ ७॥


रणस्य साधारणत्वाभावोक्तेरसङ्गतत्वापत्तेः । साधारण्वाभावे हेतुरुपमा इत्यार- भ्य इति मेदादित्स्यन्तेनोक्त: । समाधत्ते--तथापीति ॥ वस्तुगत्या साधारण्यां- भावेऽपीत्यर्थः । चन्द्रगरलयोरित्यादि यथाक्रमं चन्द्रगुणयोर्गलदोषयोश्चेत्यर्थः । बिम्बप्रतिबिम्बभावेन प्रतीयमानसादृश्ययोरुपमानोपमेयधर्मयोर्भिन्नशब्दोपात्तत्व- रूपेणाभेदाध्यवसायात् । एतच्च साधारणधर्मतेत्यग्रेतनेनान्वितम्। ज्ञानादीत्वादिना शिरसा वहनाभिनन्दनयोः कुण्ठस्थापनतद्वहिरनुद्धाटनयोश्च संग्रहः। गृह्णन्नितीया- दिना च शिरसा श्लाधते, कण्ठे नियच्छतीत्यनयोः संग्रहः ॥ अभेदाध्यवसाया- दिति । अभेदस्याध्यवसायादाहार्यनिश्चयादिसर्थः॥ साधारणधर्मतेतीति । साधारणधर्मत्वाभिमानविषयतेतीत्यर्थः । पूर्वस्मात्पूर्वोदाहरणादिति विशेष इत्यन्वं- यः । न चैवं साधर्म्यप्रतीत्युपपादनेति वस्तुतस्तदभावात्कथमुपमालक्षणसमन्वय इति वाच्यम्। चमत्कारविशेषप्रयोजकसाधारणत्वसायविषयधर्मत्वस्यैवोपमा- लक्षणत्वमित्यभिप्रायादिति । लोके बिम्बप्रतिबिम्बभावव्यपदेशस्य गगनजलाशया- दिगतचन्द्रादिविष्यतया प्रसिद्धेः कथं प्रकृते तद्वपदेश इत्याशङ्कायामाह-वस्तु- त इत्यादि । अभिन्नयोस्तथाध्यवसितयोः पृथगिति भिन्नशब्देनेत्यर्थः ॥ बिम्ब- प्रतिबिम्वभाव इति । बिम्बप्रतिबिम्बभावपदवाच्यमित्यर्थः । समय इति । सङ्केत इत्यर्थः ॥६॥ पूर्णायामुपमानादिसमग्रतानियमप्रसिद्धेस्तद्विपरीतायां लुप्तो- पमायां सर्वलोपनियमाशङ्कानिरासाय लक्षणपूर्वकं तां विभजते-वर्ण्येत्यादिना। चकारो वाशब्दार्थे । तदनन्तरं च लोपे इत्यध्याहार्यम् । एवं चेतरेतरयो- गाविवक्षया, वर्ण्यस्योपमानस्य धर्मस्योपमावाचकस्य वा लोपेऽन्यतमानुपादाने लुप्तोप्मा। सा च एकद्विञ्यनुपादानैरष्टधा भिन्नति पूर्वापराभ्यामुक्तं भवति । तडिदित्याद्युदाहरणान्यर्थतो व्याचष्टे—उपमेयादीनामिति ॥ वस्तुतो लाघवा- त्पूणभिन्नत्वं लक्षणे बोध्यम् । लक्षणवाक्यगतं क्रममुपेक्ष्योदाहरणक्रमानुसारेण विभागं दर्शयति-यथेत्यादि ॥ वाचकलुप्तेति ॥ वाचकत्वं चात्रानुपूर्वीविशे- षवत्तयोपमाबोधने निरूढत्वम् । तच्च शक्या निरूढलक्षणया वा । तत्राद्यमिवा- देर्द्वितीयं तु सुहृत्पदादेरिति । तदभावात्तडिद्गौरीत्यादौ वाचकलोपः । समासानु- १. “दानाभिन्ना',