पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [शब्दप्रमाणालंकारः १११ विलीयमानैविहगैनिमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥ यथावा- सौमित्रे ननु सेव्यता तरुतलं. चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः कासि प्रेयसि हा कुरङ्गन्नयने चन्द्रानने जानकि ॥ उपमानालंकारः ११० उपमानं यथा- तां रोहिणी विजानीहि ज्योतिषामन्त्र मण्डले। यस्तन्धि तारकान्यासः शकटाकारमाश्रितः ॥ अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम् । शैलराजमिव धैर्यशालिनं वेद्मि वेङ्कटपति महीपतिम् ॥ पूर्वोदाहरणे उपमानभूतमतिदेशवाक्यं दर्शितम् । अत्रातिदेशवाक्यार्थ- सादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शितमिति विशेषः ॥ शब्दप्रमाणालंकारः १११ शब्दप्रमाणं यथा- विवृण्वता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ एताश्चक्रीकृतचापं सदा पुरोधावदाज्ञाकरमदनकाः मर्मभेदिबाणपाताश्रयभूसंज्ञा- स्थानकलादिति बोध्यः । एवं निलीयमानैरित्यत्रापि । अयं कालः सूर्यास्तमय- वान् पक्षिनिलीयमानताद्याश्रयत्वादिति । रविरस्तगमनवान् तादृशकालसंबन्धि- खादिति वा प्रयोगो ज्ञेयः ॥ सौमित्रे इति॥ विरहातुरस्य रामस्य लक्ष्मणं प्रत्युक्तिः। अत्राप्ययं चन्द्रः कुरवधारिखादिति प्रयोगः। इत्यनुमानम् ॥ तामिति ॥ तारकाणां न्यासः संनिवेशः शकटस्याकारं संस्थानमाश्रितस्वां रोहिणी विजानीहीत्यति देशवाक्यार्थज्ञानमिहोपमानम् । इयं शकटाकारनक्षत्रव्य- तिः रोहिणीपदवाच्येत्युपमिर्ति प्रति करणत्वात् । अत्रेति ॥ अत्र एषु राजसु मध्ये मन्यथमिवातिसुन्दरं महीपति वेङ्कटपतिसं वेग्रीसाधन्वयः। दानवारि- विष्णुः शैलराजं हर धैर्यशालिनं मदनशासकलात् ॥प्रत्यक्षरूपमिति ॥ सा- श्यविशिष्पिण्डप्रत्यक्षस्यापि फलायोगव्यवच्छिन्नत्वेन कारणलादिति भावः। . फलेच उपमितिरूपेण । इत्युपमानम् ॥ विवृण्वतेति ॥ कुमारसंभवे बटुवेषं हरं प्रति पार्वत्या इयमुक्तिः । वरदोष प्रकाशयतापि स्खलितान्तःकरमेन बया ईशं महादेवं प्रति एकमलक्ष्यजन्मत्वं ।