पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० कुवलयानन्दः। [ ऊर्जखदलंकारः १०३ मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः। येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥ अन मुनि विषयरतिरूपस्य भावस्थाद्भुतरसोऽङ्गम् । यथावा- अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविख्रसनः करः॥ अत्र करुणस्य शृङ्गारोऽङ्गम् ॥ प्रेयोलंकारस्य भावालंकारत्वम् १०२ प्रेयोलंकार एव भावालंकार उच्यते । स यथा- कदा वाराणस्याममरतटिनीरोधसि वस- न्वसानः कौपीनं शिरसि निदधानोञ्जलिपुटम् । - अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन :- प्रसीदेत्याक्रोशनिमिषमिव नेष्यामि दिवसान् ।। अत्र शान्तिरसस्य कदेति पदसूचितचिन्ताख्यो व्यभिचारिभावोऽङ्गम यथावा- अत्युचाः परितः स्फुरन्ति गिरयः स्फारास्तथास्भोधय- स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- . स्तावद्विभ्रदिमा स्मृतस्तव भुजो वाचस्ततो मुद्भिताः॥ अन प्रभुविषयरतिभावस्थ वसुमतीविषयरतिभावोऽङ्गम् ॥ ऊर्जस्वदलंकारः १०३ - ऊर्जस्वी यथा- स्वप्रत्यर्थिवसुन्धरेशतरुणीः संत्रासतः सत्वरं यान्तीवीर विलुण्ठितुं सरभसं याताः किराता वने। वोऽगस्त्यः । एकचुलकेन समुद्रे पीयमाने तदन्तर्गतयोरवताररूपयोमत्स्यकूर्म- योदर्शनेन गम्योऽद्धतरसो मुनिप्रभावातिशयपर्यवसन्नतया तद्विषयरविपोषक- लात्तदङ्गमिति भावः ॥ अयमिति ॥ भूरिश्रवसश्छिन्नं हस्तमालोक्य तद्वधूना- मुक्तिः। स पूर्वानुभूतोऽयं करः । यः काञ्चीसमाकर्षणशीलः । नीवी वसनग्रन्थि- खस्ता विलंसनो मोचक इति स्मर्यमाणया शृङ्गारावस्थथा करुणरसपरिपोषः । कदेति ॥ निमिषमिव दिवसान्कदा नेष्यामीत्यन्वयः। कीदृशः। काश्यां ग- ... शातीरे वसन् । अये इत्यादेरिति कोशन्नित्यनेनान्वयः ॥ अत्युच्चा इति । स्कारा विस्तीर्णाः । प्रस्तौमि प्रसंजयामि । भुवः पृथिव्याः। इमां भुवं बिभ्रद्धारय- माणः ॥ त्वत्प्रत्यर्थीति॥ हे वीर, संत्रासतो भयाने सखरं गच्छतीस्तव १ प्रेमभावाविशयक . . . . .