मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः। येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥ अत्र मुनि विषयरतिरूपस्य भावस्थाद्भुतरसोऽङ्गम् । यथावा---- अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविरत्रंसनः करः॥ अत्र करुणस्य शृङ्गारोऽङ्गम् ॥ प्रेयोलंकारस्य भावालंकारत्वम् १०२ प्रेयोलंकार एव भावालंकार उच्यते । स यथा---
|
कदा वाराणस्याममरतटिनीरोधसि वस- |
यथावा----
|
अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथास्भोधय- |
अत्र प्रभुविषयरतिभावस्थ वसुमतीविषयरतिभावोऽङ्गम् ॥
ऊर्जस्वदलंकारः १०३
ऊर्जस्वी यथा-
|
स्वप्रत्यर्थिवसुन्धरेशतरुणीः संत्रासतः सत्वरं |
|
|
वोऽगस्त्यः । एकचुलकेन समुद्रे पीयमाने तदन्तर्गतयोरवताररूपयोमत्स्यकूर्मयोदर्शनेन गम्योऽद्धतरसो मु[१]निप्रभावातिशयपर्यवसन्नतया तद्विषयरविपोषकलात्तदङ्गमिति भावः ॥ अयमिति ॥ भूरिश्रवसश्छिन्नं हस्तमालोक्य तद्वधूनामुक्तिः। स पूर्वानुभूतोऽयं करः । यः काञ्चीसमाकर्षणशीलः । नीवी वसनग्रन्थिस्तस्ता विलंसनो मोचक इति स्मर्यमाणया शृङ्गारावस्थथा करुणरसपरिपोषः ।
कदेति ॥ निमिषमिव दिवसान्कदा नेष्यामीत्यन्वयः। कीदृशः। काश्यां गज्ञातीरे वसन् । अये इत्यादेरिति कोशन्नित्यनेनान्वयः ॥ अत्युच्चा इति । स्कारा विस्तीर्णाः । प्रस्तौमि प्रसंजयामि । भुवः पृथिव्याः। इमां भुवं बिभ्रद्धारयमाणः ॥ त्वत्प्रत्यर्थीति॥ हे वीर, संत्रासतो भयाद्वने सत्वरं गच्छतीस्तव
- ↑ प्रेमभावाविशय