पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसवदलंकारः १०१ ] अलंकारचन्द्रिकासहितः। १६९ एवं पञ्चदशान्यानप्यलंकारान्विदुर्बुधाः ॥ १७१ ॥ तत्र विभावानुभावव्यभिचारिभिव्यञ्जितो रतिहासशोकादिभिश्चित्तवृत्ति- विशेषो रसः स यत्र परस्याङ्गं भवति तत्र रसवदलंकारः । विभावानुभा- वाभ्यामभिव्यक्षितो निर्वेदादित्रयस्त्रिंश दो देवतागुरुशिष्यद्विजपुत्रादाव- भिव्यज्यमाना रतिश्च भावः । स यत्रापरस्याङ्गं स प्रेयोऽलंकारः ॥ अनौचि- त्येन प्रवृत्तो रसो भावश्च रसाभासो भावाभासवेत्युच्यते स यत्रापरस्याङ्गं तदूर्जस्वित् भावस्थ प्रशाम्यदवस्था भावशान्तिः । तस्याः पराङ्गस्वे समा- हितम् । भावस्पोद्गमावस्था भावोदयः । द्वयोर्विरुद्धयोर्भावयोः परस्परस्पर्धा भावसंधिः । बहूनां भावानां पूर्वपूर्वोपमर्दैनोत्पत्तिर्भावशबलता । एतेषामि- तराङ्गत्वे भावोदयादयस्त्रयोऽलंकाराः । तत्र रसवदुदाहरणम्- ते च प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसंभवैतिह्माख्याः ॥ विभावे- त्यादि ॥ रत्यादेरालम्बनोद्दीपनरूपाणि नायिकाचन्द्रोदयादीनि कारणानि काव्ये वर्ण्यमानानि विभावयन्तीति व्युत्पत्त्या विभावपदेनाभिधीयन्ते । कार्याणि च कटाक्षरोमाश्चादीनि तथाविधान्येवानु पश्चाद्भवन्तीति व्युत्पत्त्यानुभावपदेन । एषामेव कार्याणां रत्यादिनोत्पादने कर्तव्ये सहकारिभूतान्युत्कण्ठादीनि च व्यभि- चारिपदेन विशेषादभितः समन्ततो ये स्थायिनं चारयन्तीति व्युत्पत्तेः । एवं रतिरासक्त्यनुरागादिपर्यायबोध्यान्तःकरणवृत्तिः। विकृतिविदूषकादिशादर्शनज- न्या चित्तस्य विकासरूपा वृत्तिहाँसः । इष्टनाशानिष्टलाभादिजन्या चित्तवृत्तिः शोकः प्रसिद्धः । आदिपदेन क्रोधोत्साहभयजुगुप्साविस्मयनिर्वेदाख्यानां षण्णां परिग्रहः। विशेषपदेन च रत्यादेः स्थायिलप्रयोजक परिपुष्टत्वं कान्ताविषयल- मितरानङ्गत्वं च विवक्षितम् । तदुक्तम्-रत्यादिश्चेन्निरङ्कः स्याद्देवादिविषयोऽथ वा । अन्याङ्गभावभाग्वा स्यान तदा स्थायिशब्दभाक् ॥' इति । स्थायिन एव चा- भिव्यक्तरसत्तम् । यदाहु:-कारणान्यथ कार्याणि सहकारीणि यानि च । रत्वादेः स्थायिना लोके तानि चेनाव्यकाव्ययोः॥ विभावा अनुभावास्ते कथ्यन्ते व्यभि- चारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः ॥' इति । अभिव्य- कानां च रत्यादीनां रसरूपाणां क्रमाच्छृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्सा- द्रुतशान्तरूपविशेषसंज्ञा बोध्याः ॥ निवेदादिरिति ॥ 'निर्वेदग्लानिशहाख्या- स्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृति तिः ॥ ब्रीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्रा विस्मृतिरेव च ॥ खप्नो विबोधोऽमर्षश्चाप्यवहित्यमथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥' इति भरतेनोक्ताः । लज्जादिना विकारगोपनमवहि- स्थाख्यो भावः । देवतेत्याद्यपरिपुष्टखादेरुपलक्षणम् । रतिरिति चापुष्टहासादेः॥ अनौचित्येनेति ॥ एतचोदाहरणे दर्शयिष्यामः ॥ मुनिरिति ॥ कुम्भसंभ-