पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

maninomia- - m यधावा- कुवलयानन्दः । [ रसवदलंकारः १०१ हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते । लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः ॥ १६८॥ अत्र च कार्यावश्यंभावतच्छैघ्यादिप्रत्यायनार्थः कार्यकारणभेदव्यपदेशः ।। आयुनमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमा- विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः। आनन्दः कलिताकृतिः सुमनसा वीरश्रियो जीवितं निकेतन विजयते वीरः कलिङ्गेश्वरः ॥ अन्न दानमहोत्सवायुप्करत्वादिनाध्यवसिते राज्ञि तदायुष्ट्वादिव्यपदेशः ५६८ इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः। प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः ॥ १६९ ॥ . रसवदलंकारः १०१ रसमावतदाभासभावशान्तिनिबन्धनाः। चत्वारो रसवत्प्रेय ऊर्जस्विच समाहितम् ॥ १७ ॥ भावस्य चोदयः संधिः शबलत्वमिति त्रयः। अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् ।। नं कृला मते सति । हेतृष्णे, वामनुसरतामुना जनेनैतावत्फलं प्राप्तम् । यत्पादे. नापि यो न स्पृष्टः स एव चरणौ स्वीयौ स्त्रष्टुं न सम्यक मन्यते अनुजानाती- खन्वयः। अत्र तृष्णारूपहेतुतत्काययोःस्पष्टमभिधानम् ॥ १६ ॥ मेदान्तरमाह- हेतुहेतुमतोरिति ॥ केचिट्टोद्भटप्रभृतयः । तदुक्तम्---"हेतुमता सह हेतो- रभिधानममेदता हेतुः' इति । लक्ष्मीति ।। कटाक्षा विदुषां लक्ष्मी विलासा इखन्वयः । अत्र विलासहेतोर्विलासाभिन्नत्वेनाभिधानम् । एवंविधलक्षणायाः प्रयोजनमाह-अवेति । कार्यावश्यंभावश्च तच्छैट्रयं चेति विग्रहः । आदिना . अपथ्याशने रोग इत्यादौ कार्यमतोपादेयत्वानुपादेयत्वादिसंग्रहः॥ आयुरिति ।। . वीरः कलिङ्गेश्वरः कलिङ्गदेशाधिपो विजयत इत्यन्वयः। कीदृशः। दानरूपस्य महोत्सवस्य आयुरिति कार्याभिन्नत्वेनाभिधानम्। एवमग्रेऽपि । विशेषेण नताना झोलीभृतां राज्ञां कलिताकृति ताकारः । वीरश्रियो वीरलक्ष्म्याः निकेतन स्थानम् ।। १६८॥ इति श्रीमत्सदवाक्यप्रमाणाभिज्ञतत्सदुपाख्यभट्टविट्ठलसूरिवरात्मजश्रीरामचन्द्र- ... सूमिनमा वैश्वनाथेन कृतायामलंकारचन्द्रिकाख्यायां कुवलयानन्द- . . टीकायां हेललंकारप्रकरणं संपूर्णम् ॥ १० ॥ मावस्येति । निर्वेदल्देश्यभिचारिभावस्येत्यर्थः । प्रत्यक्षप्रमुखाः प्रत्यक्षायाः। .