सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
कुवलयानन्दः । [ रसवदलंकारः १०१


हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते । लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः ॥ १६८॥

 अत्र च कार्यावश्यंभावतच्छैघ्यादिप्रत्यायनार्थः कार्यकारणभेदव्यपदेशः ॥

यथावा ----

आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमा-
  न्विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः।
आनन्दः कलिताकृतिः सुमनसा वीरश्रियो जीवितं
 धर्मस्यैष निकेतन विजयते वीरः कलिङ्गेश्वरः ॥

अत्र दानमहोत्सवायुप्करत्वादिनाध्यवसिते राज्ञि तदायुष्ट्वादिव्यपदेशः ५६८

इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः।
प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः ॥ १६९ ॥


रसवदलंकारः १०१

रसमावतदाभासभावशान्तिनिबन्धनाः।
चत्वारो रसवत्प्रेय ऊर्जस्विच समाहितम् ॥ १७ ॥
भावस्य चोदयः संधिः शबलत्वमिति त्रयः।
अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् ॥


नं कृत्वा मते सति । हेतृष्णे, त्वामनुसरतामुना जनेनैतावत्फलं प्राप्तम् । यत्पादेनापि यो न स्पृष्टः स एव चरणौ स्वीयौ स्त्रष्टुं न सम्यक मन्यते अनुजानातीत्यन्वयः। अत्र तृष्णारूपहेतुतत्काययोःस्पष्टमभिधानम् ॥ १६७ ॥ मेदान्तरमाहहेतुहेतुमतोरिति ॥ केचिभ्दट्टोद्भटप्रभृतयः । तदुक्तम्---"हेतुमता सह हेतोरभिधानममेदता हेतुः' इति । लक्ष्मीति ॥ कटाक्षा विदुषां लक्ष्मी विलासा इखन्वयः । अत्र विलासहेतोर्विलासाभिन्नत्वेनाभिधानम् । एवंविधलक्षणायाः प्रयोजनमाह-अत्रेति ॥ कार्यावश्यंभावश्च तच्छैट्रयं चेति विग्रहः । आदिना अपथ्याशने रोग इत्यादौ कार्यमतोपादेयत्वानुपादेयत्वादिसंग्रहः॥ आयुरिति ॥ वीरः कलिङ्गेश्वरः कलिङ्गदेशाधिपो विजयत इत्यन्वयः। कीदृशः। दानरूपस्य महोत्सवस्य आयुरिति कार्याभिन्नत्वेनाभिधानम्। एवमग्रेऽपि । विशेषेण नतानां झोलीभृतां राज्ञां कलिताकृतिर्धृ ताकारः । वीरश्रियो वीरलक्ष्म्याः निकेतन स्थानम् ॥ १६८॥

इति श्रीमत्सदवाक्यप्रमाणाभिज्ञतत्सदुपाख्यभट्टविट्ठलसूरिवरात्मजश्रीरामचन्द्रसूमिनमा वैश्वनाथेन कृतायामलंकारचन्द्रिकाख्यायां टीकायां हेललंकारप्रकरणं संपूर्णम् ॥ १०० ॥

मावस्येति ॥ निर्वेदल्देश्यभिचारिभावस्येत्यर्थः । प्रत्यक्षप्रमुखाः प्रत्यक्षायाः।


कंनित्