पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

conadamikianismatica . .... .... .... ........ ..........

-..hati'.::..

RRECORAEHEYENSHORiysemamvweRESSANAMATPANENAMRAJAMaternamainamRAMMARVARANAMummer TIMSENTIkanahiloya'... 10-- १६६ कुवलयानन्दः । [विध्यलंकारः ९९ प्रतिषेधालंकारः ९८ प्रतिषधः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः ॥१६५॥ 'निर्जातो निषेधः स्वतोऽनुपयुक्तत्वादर्थान्तरं गर्भीकरोति । तेन चारुता- न्वितोऽयं प्रतिषेधनामालंकारः । उदाहरणं युद्धरङ्गे प्रत्यवतिष्ठमानं शाकुनिक प्रति विदग्धवचनम् । अन्न युद्धस्याक्षबूतत्वाभावो निति एव कीर्त्यमानस्त- अव तव प्रागल्यं न युद्धे न्युत्पत्तिग्रहोऽस्तीत्युपहासं गर्भीकरोति तच्च कि- तवेनाविष्कृतम् । यथावा- न विषेण न शस्त्रेण नाग्निना न च मृत्युना । अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः॥ अत्र स्त्रीणां विषादि निमित्तत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तासां विषा- यतिशायि क्रौर्यमित्यमुमर्थ व्यक्तीकरोति स चाप्रतीकारपारुष्या इति प्रतीकारवयो विषादिभ्यस्तासां विशेष दर्शयता विशेषणेनाविष्कृतः ॥ १६५॥ विध्यलंकारः ९९ सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम् । पञ्चमोदञ्चने काले कोकिला कोकिलोऽभवत् ॥१६६ ॥ नितिविधानमनुपयुक्तिवाधितं सदर्थान्तरगर्भीकरणेन चारुतरमिति तं विधिनामानमलंकारमाहुः । उदाहरणे कोकिलस्य कोकिलत्वविधानमनुपयुक्तं सदातिमधुरपञ्चमध्वनिशालितया सकलजनहृद्यत्वं गर्भीकरोति । तञ्च पञ्चमो- दश्चने इति कालविशेषणेनाविष्कृतम् । यथावा- हे हस्त दक्षिण मृतस्य शिशोद्धिजस्य जीवातवे विसृज शुद्धमुनौ कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्न- सीताप्रवासनपटोः करुणा कुतस्ते ॥ कितवो द्यूतकृत् । 'धूर्तोऽक्षदेवी कितवः' इत्यमरः । ननु प्रसिद्धानुवादस्या- चमत्कारित्वात्कथमलंकारलमत आह-निर्मात इति ॥ शकुनैः पाशकैर्दीव्य- तीति शाकुनिकः । आविष्कृतमिति ध्वनिलशङ्कानिवारणम् । एवमग्रेऽपि ॥१६५॥ इति प्रतिषेधालंकारः॥ ९८॥ पञ्चमस्य स्वरविशेषस्योदश्चनमाविष्करणं यत्र तादृशे काले कोकिलः कोकिलो मधुरध्वनिरभवदित्यर्थः । द्वितीयको किलपदस्यानुपयुक्तार्थत्वेनार्थान्तरे संक्रमित- स्वात् । सकलजनहृद्यत्वप्रतीतिश्च प्रयोजनम् । एवंच शालितयेत्यनन्तरं लक्षितये- ति शेषो बोध्यः । पूर्ववद्धनित्वाशङ्कानिवारणाय तचेत्यायुक्तम् ॥ हे हस्तेति ॥ - १ भवेत्'. २ निवासन'; 'विवासन'. o wsercemensariLIC B ARMANEESNCarr Solajwaennistratarasaramatiwasienanesanela