पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निरुक्त्यलंकारः ९७ ] अलंकारचन्द्रिकासहितः। १६५ इयमौदार्यात्युक्तिः । शौर्यात्युक्तिर्यथा- राजन्सप्लाप्यकूपारास्त्वत्प्रतापानिशोषिताः। . पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः ॥ संपदत्युक्तावुदात्तालंकारः । शौर्यात्युक्तावत्युक्त्यलंकार इति भेदमाहुः। अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ अल्पं निर्मितमाकाशमनालोच्येव वेधसा । इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥ इत्यसदसदुक्तितारतम्येनातिशयात्युक्त्योर्भेदः ॥ १६३ ॥ निरुक्त्यलंकारः ९७ निरुक्तियोगतो नाम्नामन्यार्थत्वप्रकल्पनम् । ईदृशैश्चरितैजाने सत्यं दोषाकरो भवान् ॥ १६४ ।। यथावा- पुराकवीनां गणनाप्रसङ्गे कनिष्टिकाधिष्टितकालिदासा । अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ १६४ ॥ ॥ समुद्राः। आहु मते तु तथ्यखातथ्यवाभ्यां मेद इति भावः। अ- तथ्ये अद्भुतल विशेषणस्य कृत्यं दर्शयति-अनयोरित्यादि ॥ एतत्पद्य 'यो- गेऽप्ययोगोऽसंबन्धाविशयोक्तिरित्यत्र प्रागुदाहृतम् ॥ असदुक्तितारतम्ये- नेति ॥ अनयोरित्यत्रासदुक्तिमात्रम् । अल्पमिति पद्ये वसन्तासदुक्तिरिति ता- रतम्येनेत्यर्थः । तथा चाद्भुतेति विशेषणादयन्तातथ्यरूपत्वलाभानातिशयोका- वतिव्याप्तिरिति भावः । अतएवानयोरिति पद्यानन्तरं दण्डिनोत्रम्-'इति सं- भाव्यमेवैतद्विशेषाख्यानसंस्कृतम्' इति । एवम् 'लोकातीत इवात्सर्थमध्यारोप्य . विवक्षितः । योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे यथा ॥' इत्युक्ता । अल्पं नि- मितमित्यायुदाहृत्य इदमत्युक्तिरित्युत्तमिति च ॥१६३॥ इत्यत्युक्यलंकारः ॥५६॥ निरुक्तिरिति लक्ष्यम् । योगवशानाम्नामर्थविशेषाभिधायिनामर्थान्तरोपवर्णन- मिति लक्षणम् ॥ ईदृशैरिति ॥ चन्द प्रति विरहिण्या उक्तिः । ईदृशैर्जनसंत्ता- पनरूपैः । दोषाया रात्रेः कर्ता दोषाणामाकरश्च ॥ पुरेति ॥ कनिष्ठिकाङ्गुलिवि- शेषः । अधिष्ठितः कालिदासो यस्यां सा अङ्कलिविशेषरूपा। अर्थवती न विद्यते कविनाम यस्यां सेत्यन्वर्थनामवती ॥ १६४ ॥ इति निरुत्यलंकारः ।। ९७। १ स्ववैरिराजवनिता'. कुव० १६