पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
उपमालंकारः १]
अलंकारचन्द्रिकासहितः ।

प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते ॥ ५ ॥

उपमालंकारः १

उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ।।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥ ६ ॥


ख्यग्रन्थे । त एवेत्यनन्तरं लिख्यन्त इति शेषः । स्थितानामपि केषांचिदलेखनात् प्राय इत्युक्तम् । यथानन्तरश्लोकस्योत्तरार्धम् । तत्रैवं दृश्यते ‘हृदये खेलतोरु- चैतन्वङ्गीस्तनयोरिव” इति । खयं त्वन्यदेव विरचितमिति । एवंच तदीयत्वेन कथनादाशङ्कानिरासः ॥ ५ ॥

 संप्रत्यर्थालंकारेषु निरूपणीयेषु बहलालंकारघटकतया सुप्रसिद्धतया च प्रथम- मुपमालंकार लक्ष्यति–उपमेति । अयं च लक्ष्यनिर्देशः । शेषं लक्षणम् । सादृश्यलक्ष्मीश्चमत्कृतिजनकता। तद्विशिष्टसादृश्यमिति यावत् । धर्मेधर्मिणोरमे- दोपचाराल्लक्षणं व्याचष्टे—यत्रेति । यत्र काव्ये वृत्तित्वं सप्तम्यर्थः। तच्च शक्ति लक्षणान्यतरसहकारेण बोधकत्वसम्बन्धेन । उपमानमथिकगुणं चन्द्रादि, उपमेयं वण्य॑मानं कामिनीवदनादि, सहृदयः काव्यभावनापरिपक्वबुध्दि:व्यङ्ग्यस्य मर्यादा प्रतीतिनियमरूपा यया सा व्यञ्जनेत्यर्थः । अत्र चोपमानोपमेययोरिति खरूपक- थनं नतु लक्षणान्तर्गतं व्यावर्तनीयाभावादात्माश्रयापादकत्वाच्च । उपमानत्वो- पमेयत्वयोरुपमाघटितत्वात् । एतच्चाग्रे व्यक्तीभविष्यति । इत्थं चालंकारत्वे सति सादृश्यमुपमालंकारलक्षणं बोध्यम् । एवमग्रेऽप्यधिकारप्राप्तमलंकारत्वविशेषणं बोध्यम् ॥ हंसीत्यादि । अत्र तावदिवार्थे सादृश्ये निरूपितत्वसंसर्गेण हंस्या देरन्वयः । सादृश्यस्य प्रयोजकत्वसंसर्गेण खर्गङ्गावगहनाश्रयस्वरूपे साधारणधर्मे तस्य च स्वरूपसंवन्धेन कीर्तौ सादृश्यस्य निपातार्थतया नामार्थं प्रति साक्षात्संब न्धेन विशेष्यत्वे विशेषणत्वे च बाधकाभावात् । तथाच हंसीनिरूपितसादृश्यप्रयो- जकखर्गङ्गाकर्मकावगाहनाश्रयत्ववती कीर्तिरिति बोधः । नचैवं स्वर्गङ्गावगाहन- 'मिवशब्दश्चेत्याद्यग्निमग्नन्थे धात्वर्थस्य समानधर्मत्वोक्तिर्विरुद्धेति वाच्यम्। तदा श्रयत्वस्य समानधर्मत्वे तस्य तथात्वस्यौचित्यातत्वेन विरोधाभावात्। तथा सति तत्रैव कुतो न सादृश्यान्वय इति चेन्न । धत्वर्थनिष्ठविशेष्यतानिरुपित प्रकारतासंसर्गेण शाब्दबोधे विशेष्यतया विभक्त्यर्थोपस्थेर्हेतुत्वात़ । नच निपा- तार्थभिन्नवृत्तित्वेन प्रकारता विशेषणीयेति वाच्यम् । घटो न पश्यतीत्यादौ घटाद्य न्विताभावस्य कर्मतासंसर्गेण दर्शनेऽन्वयापत्तेः । यदि तु धात्वर्थेऽपि तात्पर्यव- शात्सादृश्यान्वयोऽनुभवसिद्धस्तदा धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धे- नान्वयवुद्धिं प्रति तज्जन्योपस्थितेः प्रतिबन्धकत्वमात्रं परिकल्प्य घटो न पश्यती- त्यादौ पूर्वोक्तान्वयबोधो निराकरणीय इति दिक् । एवमरविन्दमिव सुन्दरवदन- मियादावरविरन्दादिनिरूपितसादृश्यस्य प्रयोजकतासंसर्गेण सुन्दरपदार्थैकदेशेऽपि सुन्दरत्वेऽनुभवबलांदन्वयस्तद्विशिष्टस्य चाभेदेन मुखादौ । इत्थं चारविन्दनिरू-