सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
कुवलयानन्दः । [ वक्रोक्त्यलंकारः ९२


लिनीसिमामपहाय धनलिप्सया प्रस्थितो रसानभिज्ञत्वाद्वोप्राय एव । तस्य निवर्तकस्तु धनस्य जेता धनेनाकृष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकवादित्यन्तरमपि गर्भितम् ॥ १५८॥


वक्रोक्त्यलंकारः ९२

वक्रोक्तिः क्ष्लेषकाकुभ्याम[] परार्थप्रकल्पनम् ।
मुञ्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके ॥ १५९॥

 अन्न मानं मुञ्च प्रयाता रात्रिरित्याशयेनोक्तायां वाचि नन्दिनं प्राप्तं मा मुञ्चेत्यर्थान्तरं क्ष्लेषेण परिकल्पितम् । यथावा--

अहो केनेद्दशी बुद्धिर्दारुणा तव निर्मिता।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥

इदमविकृतक्ष्लेषोक्तेरुदाहरणम् । चिकृतक्ष्लेषवक्रोक्यथा--

भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना
 स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः।
इयं यास्यत्युच्चैर्विपदमधुना वानरचमू-
 र्लधिष्ठेदं षष्टाक्षरपरविलोपात्पठ पुनः॥


 सर्वमिदं शब्दक्ष्लेषमूलाया बक्रोक्तेरुदाहरणम् । अर्थक्ष्लेषमूलाया वक्रोक्तेर्यथा---

भिक्षार्थी स क्क यातः सुतनु बलिमखे ताण्डवं क्काद्य भद्रे
 मन्ये वृन्दावनान्ते व नु स मृगशिशुनैंव जाने वराहम् ॥

धन, त्वं यघुत्सहसे उत्साहवान्भवसि तदा तं निःस्नेहं नायकं घटयाऽनया संयोजय । गवां निवर्तने परापहृतानां व्यावर्तने य एव प्रभवति स एव धनंजयोऽर्जुन इलन्वयः। लिप्सया प्रोषितस्य.याङ्गना तत्सखीवचन इति संबन्धः । आन्ध्रास्तैलङ्काः । इमां मत्सखीम् । गोप्रायो गोतुल्यः ॥१५८ ॥ इति छेकोक्त्यलंकारः९१

 वक्रोक्तिरिति॥ कालनेर्विकारः अपरार्थस्याभिप्रेतादर्थादर्थान्तरस्य । नन्दी हरस्य गणविशेषः ॥ अहो इति ॥ दारुणा रेत्यभिप्रेतं काष्ठेनेति कल्पनं विकृतत्वं च कस्यचिद्वर्णस्यावापोद्वापाभ्याम् ॥ भवित्रीति ॥ सीतां प्रति रावणोक्तिः पादत्रयं । चतुर्थस्तं प्रति सीतायाः। ते तव पतिः स रामो युधि संग्रामे पुरतोऽग्रतो न स्थाता स्थास्यतीत्यर्थः । अतिशयेन लघुर्लघिष्ठस्तत्संबोधनम् । इदं पादत्रयं षष्ठाक्षरात्पराणां सप्तमानां त्रि-न-वीति वर्णानां विलोपो यत्र तादृशं पुनः पठेत्यर्थः। शब्दक्ष्लेषेति ॥ शब्दस्य परिवृत्त्यसहत्वादिति भावः॥ भिक्षेति ॥ जलनिधिश्च हिमांश्च तकन्ययोर्लक्ष्मीपार्वत्योः क्रमेण इत्थं लीलया संलापो मियोभाषणं नोऽस्मान् त्रायतामित्वन्वयः । इत्थं कीदृक् तदाह-मिक्षार्थीति ॥हरमभिप्रेस


  1. 'मपूर्वार्थप्र'