तिबन्धकं किंचिदपि नास्तीति हृदयम् । इदमुश्चेयप्रश्नोदाहरणम् । निबद्धप्रश्नोत्तरं यथा-
|
कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । |
|
|
ईर्ष्यामानानन्तरमनुतप्ताया नायिकायाः सखीमागर्ता प्रति तस्याः कुशलमिति नायकस्य प्रश्नः । जीवतीति सख्या उत्तरम् । जीवस्याः कुतः कुशलमिति तदभिप्रायः । अन्यत्पृष्टमन्यदत्तरमिति नायकस्य पुनः कुशलं पृच्छामीति प्रश्नः। पृष्टस्योत्तरमुक्तमित्यभिप्रायेण जीवतीयुक्तमिति सख्या वचनम् । सखीवचनस्याभिप्रायोद्धाटनार्थ पुनरपि तदेव कथयसीति नायकस्वाक्षेपः । मृतां नु कथयामि या क्ष्वसितीति स्वाभिप्रायोद्घाटनार्थम् । सति मरणे खलु तस्याः कुशलं भवति मदागमनसमयेऽपि श्वासेषु संचरत्सु कथं मृतां कथयेयमित्यभिप्रायः ॥ १४९ ॥
|
प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुच्यते । |
अग्न केदारपोषणरता इति प्रश्नाभिन्नमुत्तरं के खेटाः किं चलमिति प्रश्नद्वयस्य वय इत्येकमुत्तरम् । उदाहरणान्तराणि विदग्धमुखमण्डने द्रष्टव्यानि १५०
सूक्ष्मालंकारः ८४
|
सूक्ष्म पराशयाभिज्ञे तरसाकूतचेष्टितम् । |
कामुकस्वावलोकनेन संकेतकालप्रश्नभावं ज्ञातवत्याश्चेष्टेयम् । अस्तंगते सूर्य संकेतकाल इत्याकूतम् । यथावा--
संकेतकालमनसं विटं ज्ञात्वा विदग्धया।
आसीत्रार्पिताकृतं लीलापन निमीलितम् ॥ १५१॥
तादृशस्योत्तरस्य ॥ ईर्ष्यामानेति ॥ ईर्ष्याहेतुकमानेत्यर्थः । अनुतप्तायाः पश्चात्तापयुतायाः ॥ १४९ ॥ प्रश्नोत्तरेति ॥ प्रश्नश्च उत्तरान्तरं च प्रश्नोत्तरान्तरे ताभ्याममिनमुत्तरं चित्रमित्युच्यत इत्यर्थः ॥ के दारेति ॥ दाराणां पोषणे रताः के इति प्रश्नः, केदारस्य क्षेत्रस्य पोषणे रता इति तदेवोत्तरम् । के खेटाः खे आकाशे अटन्तीति प्रश्नस्य यदुत्तरं वयः पक्षिण इति । तत्किं चलमिति प्रश्नस्य यदुत्तरान्तरं वयस्तारुण्यादीति तेनाभिन्नम् ॥१५०॥ इत्युत्तरालंकार:८३
सूक्ष्ममिति ॥ पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्राय चेष्टितं सूक्ष्मालंकारः । पराशयाभिज्ञश्वासावितरश्च तस्य साकूतचेष्टितमर्थात्परविषय इति चार्थः। संकेतेति ॥ संकेतकाले भनो यस्य तजिझासुमिति यावत् । विटं जारं नेत्रा-