पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[उपोद्घातः १
कुवलयानन्दः ।

   उद्धाट्य योगकलया हृदयाब्जकोशं    धन्यैश्चिरादापि यथारुचि गृह्यमाणः ।
   यः प्रस्फुरत्यविरतं परिपूर्णरूपः
    श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ ३ ॥

  अलंकारेषु बालानामवगाहनसिद्धये ।
  ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः॥४॥

   येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः ।


स्यतीति सहृदयैराकलनीयम् । मातापितराविति रूपकाभ्यामुक्तोपमयोः संसृष्टि । परस्परं चोपमयोः फलायितेत्येकवाचकानुप्रवेशलक्षणः संकर इति दिक् ॥ २॥ संप्रति प्रतिपिपादयिषितानामलंकाराणां व्युत्पत्तेः खतोऽपुरुषार्थतया फलत्वा- योगात्तस्या रसाखादौपयिकत्वेन फलत्वं प्रेक्षावतां प्रकृतग्रन्थप्रवृत्तये सूचयितुं शृङ्गाररसाधिदैवतं श्रीकृष्णं प्रति रसास्वादानन्दं प्रार्थयते-उद्घाट्येति ॥ स मुकुन्दो मे मह्यं शश्वद्भवं शाश्वतिकं भग्नावरणतया सदा प्रकाशमानं श्रेयो विग- लितवेद्यान्तरमानन्दं 'रसो वै सः' इति श्रुतेः रसपदाभिधेयं दिशतु । ददात्वि- त्यर्थः । यथाश्रुते मुक्तिप्रार्थनायाः प्रकृतेऽसंगत्यापत्तेः । स कः । यो धन्यैर्महा- महिमपुण्यशालिभिर्नारदादिमुनिभिर्योगकलया योगकौशलेन हृदयाब्जस्य उरसो मध्यवर्तिनो हृदयपुण्डरीकस्य कोशं मुकुलमधोमुखतया विद्यमानमुद्धाट्य रेचक- प्राणायामेनोर्ध्वमुखं कृत्वा चिराद्बहुकालं यथारुचि यथेच्छं गृह्यमाणोऽपि रामकृ- ष्णाद्यभिमतमूर्तिध्यानगोचरीक्रियमाणोऽपि परितः पूर्ण रूपमस्य तथाभूतोऽपरि- च्छिन्नब्रह्मरूपोऽविरतं निरन्तरं मुक्तिदशायां प्रस्फुरति प्रकाशत इति विरोधालं- कारः । औपासनिकरूपस्य कल्पितत्वेन च तत्परिहारः । अथवा योगिभिरप्यचि न्त्यखरुप इति माहात्म्यातिशयवर्णनम् । अत्र योगिगतभगवद्विषयकरतिभावस्य कविगतं तं प्रत्यङ्गतया प्रेयोलंकारः॥ ३ ॥ चिकीर्षितस्य ग्रन्थस्य प्रयोजनामि- थेये प्रदर्शयति-अलंकारेष्विति ॥ एतच्चोभयान्वयि । अलंकारेष्वर्थालंकारे- षूपमादिषु विषये बालानामव्युत्पन्नानां तेष्ववगाहनस्य व्युत्पत्तेः सिद्धय इस्त्यर्थः। तेषां ये लक्ष्यलक्षणे तयोः संग्रह इति नित्यसापेक्षत्वात्समासः । लक्ष्यमुदाहरण- म् । अलंकारत्वं च रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विष- यितासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् । अनुप्रा सादिविशिष्टशब्दज्ञानादुपमादिविशर्ष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्व- यः। शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकतया विषयितयावच्छेदकत्वेन तद्विशेष- णीभूतानुप्रासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात् । रसवदाध्यलंकारसंग्रहाय व्यङ्गयोपमादिवारणाय च भेदद्वयगर्भसत्यन्तोपादानम् ॥ ४॥ परकीयग्रन्थाप- हारशङ्कानिरासायाह-येषामिति ॥ येषामलंकाराणां चन्द्रालोके चन्द्रालोका-

१ 'कौशल्येन'.