पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-.-- - - - - कुवलयानन्दः । [उत्तरालंकारः ८३ नृत्यदर्गाहासप्रसरसहचरैस्तावकीनैर्यशोभि- आंवल्यं नीयमाने त्रिजगति परितः श्रीनृसिंहक्षितीन्द्र । मेहग्यवेष नाभीकमलपरिमलप्रौढिमासादयिष्य- द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः ॥ काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥ इदं विशेषकस्योदाहरणम् । अत्र द्वितीयकाकपिकशब्दो काकत्वेन ज्ञातः पिकत्वेन ज्ञात इत्यर्थान्तरसंक्रमितवाच्यौ ॥ यथावा- वाराणसीवासवतां जनानां साधारणे शंकरलाग्छनेऽपि । पार्थप्रहारबणमुत्तमाझं प्राचीनमीशं प्रकटीकरोति ॥ १८ ॥ --...- .--.-..... -.-.--- उत्तरालंकारः ८३ किंचिदाकूतसहितं स्यागुढोत्तरमुत्तरम् ।। यत्रासौ वेवसी पान्थ तत्रेयं सुतरा सरित् ॥१४९॥ सरित्तरणमार्ग पृच्छन्तं प्रति तं कामयमानाया उत्तरमिदम् । वेतसीकुञ्ज स्वाच्छन्द्यमित्याकूतगर्भम् । यथावा- ग्रामेऽस्मिन्प्रस्तरप्राये न किंचित्पान्थ विद्यते । पयोघरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस ।। मास्तरणादिकमर्थयमानं पान्धं प्रत्युक्तिरियम् । स्तनोन्नतिं दृष्टा रन्तुमि- च्छसि चेद्वस । अविदग्धजनप्रायेऽस्मिन्ग्रामे कश्चिदवगमिष्यतीत्येतादृशं प्र- लंकारादित्यलं विस्तरेण ॥ नृत्यदिति ॥ नृत्यं कुर्वतो भर्गस्य हरस्य योऽहास- स्वत्प्रसरस्य समूहस्य विस्तारस्य वा सहचरैः सदृश रित्यर्थः । ईहकूकीर्तिवाच्छुक्ल एष कमलाकामुको नाभिकमलपरिमलस्य प्रोटिं समृद्धिं यदि नासादयिष्यन्नाधा- रयिष्यदिल्लन्वयः । यत्तु तदुणस्यात्र निर्बाधकखात्कथं तत्प्रतिद्वन्द्विखमुन्मीलि. तस्येति तदत्तोपालम्भरूपलादपेक्ष्यम् । तद्गुणेन मेदानध्यवसायमात्रस्योक्त- लात् ॥ वाराणसीति । तृतीयलोचनादिचिहे साधारणेऽपि सतीत्यन्वयः । प्रार्थोऽर्जुनस्तेन कृतो यः प्रहारस्तेन व्रणो यत्र तादृशमुत्तमाझं शिरः। पूर्वत्र खाभाविकगुणसाम्यमिह लागन्तुकगुणसाम्यमिति मेदः ॥ १४८॥ इत्युन्मी. लित-विशेषकालंकारौ ॥ ८१ ॥ ८२ ॥ किंचिदिति ॥ किंचिदभिप्रायसहितं गूढमुत्तरमुत्तरं नामालंकारः । वेतसौं केतसलता । सुखेन तरितुं योग्या सुतरा ॥ ग्राम इति ॥ प्रस्तरप्राये पाषाण- बहुले पाषाणतुल्ये च 'प्रायो बाहुल्यतुल्ययोः' इति कोशात् । किंचिदास्त- रंपादिकं समागमप्रतिबन्धकं च। पयोधरो मेघः स्तनश्च । कश्चिदवगमि- यति शास्थतीत्येताहशम्मवादिरूपम् । उन्नेयः कल्प्यः प्रश्नो येन । -