पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः ।

श्रीमदप्पय्यदीक्षितविरचितः

कुवलयानन्दः ।

अलंकारचन्द्रिकाख्यव्याख्यासमेतः ।

श्रीगणेशाय नमः ।

अमरीकबरीभारभ्रमरीमुखरीकृतम् ।
दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ १ ॥


परस्परतपःसंपत्फलायितपरस्परौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ २ ॥


अलंकारचन्द्रिका ।

अनुचिन्त्य महालक्ष्मीं हरिलोचनचन्द्रिकाम् ।
कुर्वे कुवलयानन्दसदलंकारचन्द्रिकाम् ॥ १ ॥

 चिकीर्षिताविघ्नसिद्धय इष्टदेवतां स्तौति-- अमरीति ॥ अत्र चरणमेव पङ्कजमिति मयूरव्यंसकादिसमासाश्रयणात्परिणामालंकारः । चरण आरोप्यमाणस्य पङ्कजस्यारोपविषयचरणात्मतापरिणतिं विना दुरितदूरीकरणक्रियार्थत्वासम्भवात् । 'परिणामः क्रियार्थश्चेद्विषयी विषयात्मना' इति तल्लक्षणात् । नच पङ्कजमिव चरणमिति पूर्वपदार्थप्रधान उपमितसमास एवास्त्विति शङ्कयम् । अमरीणां कबरीभारस्य केशपाशस्य संबन्धिनी सौगन्ध्यलोभात्तत्संसृष्टा या भ्रमरी तया मुखरीकृतमिति विशेषणस्यानुगुण्याभावात्तस्य पङ्कजगतत्वेनैव प्रसिद्धेरिति । एतद्विशेषणावगतेन च पादपतनेनाभिव्यज्यमाना गौरीविषया सुराङ्गनागता रतिः कविगता तां पुष्णातीति प्रेयोलंकारोऽपि बोध्यः ॥ १ ॥ परस्परेति ॥ प्राञ्चौ पुरातनौ जायापती अर्थादुमामहेश्वरौ स्तुमः । किंभूतौ । प्रपञ्चस्य जीववर्गस्य मातापितृरूपौ निरुपधिकृपाश्रयत्वाद्धितोपदेष्टृत्वाच्च । तथा परस्परसंबन्धिन्यास्तपःसंपत्तेः फलवदाचरितं परस्परस्वरूपं ययोस्तौ । अत्र परशब्दस्य क्रियाविनिमयविवक्षायां ’कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' इति वार्तिकेन द्विर्भावे असमासवद्भावे ‘पूर्वप्रदस्थस्य सुपः सुर्वक्तव्यः' इत्यनेन सुपः स्वादेशे च परस्परशब्दव्युत्पत्तेः पार्वतीतपःसमृद्धिफलायितः परमेश्वरः परमेश्वरतपःसंपत्फलायिता च पार्वतीत्यर्थो लभ्यते । तपःसंपत्तेश्च फलं निरतिशयानन्द इति तदुपमया परस्परं परमप्रेमास्पदलक्षणः शृङ्गारो व्यज्यमानः सौभाग्यातिशयव्यञ्जनमुखेन शिवयोर्भावप्रकर्षे पर्यव-