पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उल्लासालंकारः ६९ ] अलंकारचन्द्रिकासहितः। १४१ अन्न पुष्पग्रहणोपायभूतारोहणसिञ्चर्थात्पदनिधानात्तत्रैव पुष्पग्रहण- लाभः ॥ १३॥ विषादनालंकारः ६८ ... इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् । दीपैमुद्योजयेद्यावनिर्वाणस्तावदेव सः ॥ १३२ ॥ . यथावा- रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः इत्थं विचिन्तयति कोशगते द्विरेफे .. हा हन्त हन्त नलिनी गज उज्जहार ॥ १३२ ॥ उल्लासालंकारः ६९ एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि । अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जाह्नवी ॥१३३॥ काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति च विधातारं त्वद्धाटीष्वरियोषितः॥१३४ ॥ तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् । लाभोऽयमेव भूपालसेवकानां न चेद्वधः ॥ १३५ ॥ इति प्रकारत्रयसाधारणं सामान्यलक्षणं बोध्यम् ॥ १३१ ॥ इति प्रहर्षणालंकार- प्रकरणम् ॥ ६ ॥ इष्यमाणविरोधो योऽर्थस्तत्संप्राप्तिर्विषादनमलंकारः। उद्योजयेदुद्दीप्तं कुर्यात् । उद्योजयेद्यावदित्यनेन तदिच्छामात्रं नतु तत्करणमिति विषमाद्धेदः। एवमग्रि- भोदाहरणेऽपीच्छामात्रं न विष्टोत्पत्त्यनुकूलाचरणमिति ॥ १३२ ॥ इति विषादन- प्रकरणम् ॥ ६८॥ .. एकस्येति ।। एकस्य गुणदोषाभ्यामन्यस्य तौ गुणदोषौ यदि भवतस्तदोल्ला- सालंकारः ॥अपीति ॥ अपिः संभावनायाम् । साध्वी पतिव्रता स्नाखा मां पावयेदिति जाहवी इच्छतीत्यन्वयः । तव धाटीषु युद्धयात्रासु कुचयोः सृष्टं का- ठिन्यं पादपद्मयोर्वाञ्छन्त्योऽरियोषितो विधातारं निन्दन्तीत्यन्वयः। स्रष्ट मिति पाठे कुचयोः काठिन्यं पादयोः स्रष्टमिच्छन्त्यं इत्यन्वयः॥ लामो १ 'प्राप्तिश्च'. २ 'मुद्दीपयेत्'. ३ 'तावनिर्वाण एव सः'. ४ 'कुचयोर्दष्टु'. ५ 'विश्वधातार .. .... कुव०१४