अन्न पुष्पग्रहणोपायभूतारोहणसिञ्चर्थात्पदनिधानात्तत्रैव पुष्पग्रहणलाभः ॥ १३१॥
विषादनालंकारः ६८
यथावा-
|
रात्रिर्गमिष्यति भविष्यति सुप्रभातं |
उल्लासालंकारः ६९
इति प्रकारत्रयसाधारणं सामान्यलक्षणं बोध्यम् ॥ १३१ ॥ इति प्रहर्षणालंकारप्रकरणम् ॥ ६७ ॥
इष्यमाणविरोधो योऽर्थस्तत्संप्राप्तिर्विषादनमलंकारः। उद्योजयेदुद्दीप्तं कुर्यात् । उद्योजयेद्यावदित्यनेन तदिच्छामात्रं नतु तत्करणमिति विषमाद्धेदः। एवमग्रिभोदाहरणेऽपीच्छामात्रं न त्विष्टोत्पत्त्यनुकूलाचरणमिति ॥ १३२ ॥ इति विषादनप्रकरणम् ॥ ६८॥
एकस्येति ॥ एकस्य गुणदोषाभ्यामन्यस्य तौ गुणदोषौ यदि भवतस्तदोल्लासालंकारः ॥अपीति ॥ अपिः संभावनायाम् । साध्वी पतिव्रता स्नाखा मां पावयेदिति जाहवी इच्छतीत्यन्वयः । तव धाटीषु युद्धयात्रासु कुचयोः सृष्टं काठिन्यं पादपद्मयोर्वाञ्छन्त्योऽरियोषितो विधातारं निन्दन्तीत्यन्वयः। स्रष्ट मिति पाठे कुचयोः काठिन्यं पादयोः स्रष्टमिच्छन्त्यं इत्यन्वयः॥ लामोऽमिति ॥