सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
ललितालंकारः ६६ ] अलंकारचन्द्रिकासहितः।


ललितालंकारः ६६

[]वर्ण्ये स्थाद्वर्णवृत्तान्तप्रतिबिम्बस्य वर्णनम् ।
ललितं निर्गते नीरे सेतुमेषा चिकीर्षति ॥ १२८ ॥

 प्रस्तुते धर्मिणि यो वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव तत्प्रतिविम्बरूपस्य कस्यचिदप्रस्तुतवृत्तान्तस्य वर्णनं ललितम् । यथाकथंचिदाक्षिण्यसमागततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरासतनायकानयनार्थ सखी प्रेषयितुकामा नायिकामुद्दिश्य सख्या वचनेन तव्घपारप्रतिविम्बभूतगतजलसेतुबन्धवर्णनम् । नेयमप्रस्तुतप्रशंसा प्रस्तुतधर्मिकत्वात् , नापि समासोक्तिः प्रस्तुतवृत्तान्ते वर्यमाने विशेषणसाधारण्येन सारूप्येण वाप्रस्तुतवृत्तान्तस्फूर्त्यभावात्, अप्रस्तुतवृत्तान्तादेव सरूपादिह प्रस्तुतवृत्तान्तस्य गम्यत्वाद, नापि निदर्शना प्रस्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरक्यसमारोप एव तस्याः समुन्मेषात् । यदि विषयविषयिणोः शब्दोपात्तयोः प्रवर्तमान एवालंकारो विषयिमानोपादानेऽपि स्यात्तदा रूपकमेव भेदेऽप्यसेदरूपाया अतिशयोक्तेरपि विषयमाक्रामेत । ननु तर्घत्र प्रस्तुतनायकादि निगरणेन तत्र शब्दोपात्ताप्रस्तुतनीराद्यभेदाध्यवसाय इति भेदे अभेदरूपातिशयोक्तिरस्तु। एवं तहिं सारूप्यनिबन्धना अप्रस्तुतप्रशंसाविषयेऽपि सैवातिशयोक्त्तिः स्मात् । अप्रस्तुतधर्मिकत्वास्न भवतीति चेत्, तत्राप्यप्रस्तुतधर्मिवाचकपदस्यापि प्रसिद्धातिशयोक्त्युदाहरणेष्विव प्रस्तुतधर्मिलक्षकत्वसंभवात् ॥ नन्वप्रस्तुतप्रशंसायां सरूपादप्रस्तुतवाक्यार्थावास्तुतवाक्यार्थोऽवगम्यते नत्वतिशयोकाविव विषयवाचकैस्तत्तत्पदैर्विषया लक्ष्यन्त इति भेद इति चेत्तर्हि इहापि प्रस्तु


स्पदमिति विषमालंकारप्रकरणे त्वयैचाभिधानादिस्यलं विस्तरेण ॥ १२७ ॥ इति मिथ्याध्यवासित्यलंकारः ॥ ६५॥

 प्रस्तुत इति ॥ ललितमिति लक्ष्यनिर्देशः । निर्गत इत्युदाहरणम् । दाक्षिण्येत्यादिक्तप्रत्ययान्तचतुष्टयं नायविशेषणम् । दाक्षिण्यमनुरोधशीलत्वम् ॥ तब्घापारेति ॥ सखीप्रेषणरूपनायिकाव्यापारस्वरूपेत्यर्थः । सारूप्यं चात्र नैरर्यक्यम् । क्लृप्तालंकारेष्वन्तर्भावमाशङ्कय निराकरोति--नेयमित्यादिनाप्रस्तुताप्रस्तुतेति ॥ तथाच प्रकृतेऽप्रस्तुतवृत्तान्तस्यैवोपादानान्निदर्शना न युक्त्तेति भावः । ननूभयोः शब्दोपात्तल इवाप्रस्तुतमात्रस्य तत्वेऽपि विदर्शनास्वित्याशयाह-यदीति । प्रतिबन्धा तावत्परिहरति-- तहि सारूप्येति॥ "एकः कृती शकुन्तेषु योऽन्यं शक्रान याचते' इत्यादावित्यर्थः । अप्रस्तुतेति॥ अप्रस्तुतस्य शकुन्तादेस्तत्र वर्णनीयवादतिशयोकिस्थले च वापी कापीत्यादौ वापीखादिना प्रस्तुतनाभ्यादेर्ण्यत्वान्नातिशयोक्तिस्तत्रापादयितुं शक्येति भावः। अप्रसिद्धोऽयं हेतुरित्याह-तत्रेति ॥ प्रसिद्धति ॥ वापी कापीत्यादिसर्वसम-


  1. 'प्रस्तुते वर्ण्यवाक्यार्थ'