पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुर कुवलयानन्दः । मिथ्याध्यवसित्यलंकारः ६५ अथावा- कस्तूरिकामृगाणामण्डागन्धगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥ यद्यर्थोक्तौ च कल्पनमतिशयोक्तिभेद इति काव्यप्रकाशकारः ॥ १२६॥ .............. .......... ...... ... ... मिथ्याध्यवसित्यलंकारः ६५ किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्रजं वहन् ॥ १२७॥ अन्न वेश्यावशीकरणस्यात्यन्तासंभावितत्वसिद्धये गगनकुसुममालिकाधा- रणरूपार्थान्तरकल्पनं मिथ्याध्यवसितिः। यथावा- अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिराव्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन बन्ध्योदरा- .. . . . . . .न्मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसि ॥ अनायोदाहरणं निदर्शनागम। द्वितीयं तु शुद्धम् । असंबन्धे संबन्धरूपा- तिशयोक्तितो मिथ्याध्यवसितेः किंचिन्मिथ्यात्वसिद्यर्थं मिथ्यार्थान्तरकल्पना- .. स्मना विच्छित्तिविशेषेण भेदः ॥ १२७ ॥ nepavan sorr: . ..... Mait A '.initalamanKE:-26- s minection writtenwwwberrahmanasparmannewgriAN MAKARMATTE R TRENARELAIKRAPALEARNE तदा कस्तूरिकामृगाणामण्डादखिलं गन्धरूपं गुणमादाय खलजिह्वायां निवे- शयिष्यामीत्यन्वयः ॥ १२६ ॥ इति संभावनालंकारः ॥ ६४ ॥ किंचिदिति ॥ कस्यचिदर्थस्य मिथ्यालसिद्ध्यर्थ मिथ्याभूतार्थान्तरकल्पन मिथ्याध्यवसितिरलंकारः । वेश्यामित्युदाहरणम् । खसज गगनमालाम् । अत्र खपुष्पमालाधारणमिव वेश्यावशीकरणमिति निदर्शनापि बोध्या ॥ अस्येति ॥ परार्धपरयां परार्धसंख्यामतिकान्तया । लक्षीकृता उपलक्षिताः। प्रज्ञाचक्षुषा अन्वेनावक्ष्यमाणाश्च ता बधिरश्राव्याश्चेति कर्मधारयः । कलयता कुर्वता । प्रक.. रेण समूहेन । कूर्मरमणी कच्छपी। रोधति तीरे। मिध्याध्यवसितेरित्यस्य भेद इत्यत्रान्वयः। कल्पनाविच्छित्तिविशेषेण कल्पनाप्रयुक्तविच्छित्तिविशेषेण । कल्प- नात्मनेति पाठे कल्पनास्वरूपेणेत्यर्थः । उपधेयसंकरेऽप्युपाक्षेरसंकरात् । विच्छि- त्तिविशेषेणेति च तस्यैव विशेषणम् । विच्छित्तेविशेषो यस्मादिति, विच्छित्ति विशेषयति व्यावर्तयतीति वा व्युत्पत्तेः । एवेन प्रौढोक्त्यैव गतार्थतामाचक्षाणा निरस्ती वैदितव्याः। नच मिथ्याध्यवसितेरलंकारान्तरत्वे 'हरिश्चन्द्रेण संजप्ताः प्रगीता धर्मसूतुना । खेलन्ति निगमोत्सले मातगङ्गे गुणास्तव ॥' इत्यादी हरि- श्चन्द्रादिसंबन्धागुणानां सत्यताप्रतीतेः सत्याध्यवसितिरपि तथा स्यादिति वा- ध्यम् । सत्यताप्रतीत्यर्थ कस्याप्यर्थस्य कविप्रतिभाकल्पितलाभावेन शब्दमात्रेणा- लंकारताया असंभवात् । कविप्रतिभामात्रकल्पिता अर्थाः काव्ये अलंकारपदा-