पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभावनालंकारः ६४ ] अलंकारचन्द्रिकासहितः । १३५ मालिन्यमखशशिनोर्मधुलिट्कलको धत्तो मुखे तु तव दृक्तिलकाञ्जनाभाम् । . दोषावितः कचन मेलनतो गुणत्वं वक्तुर्गुणौ हि वचसि भ्रमविप्रलम्भौ ॥ १२४ ॥ प्रौढोत्यलंकारः ६३ प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतृत्वप्रकल्पनम् । __कचाः कलिन्दजातीरतमालस्तोममेचकाः॥ १२५॥ कार्यातिशयाहेतौ तहेतुत्वप्रकल्पनं प्रौडोक्तिः । यथा तमालगतनैल्याति- शयाहेतौ यमुनातटरोहणे तद्धेतुत्वप्रकल्पनम् । यथावा- . कल्पतरुकामदोग्ध्रीचिन्तामणिधनदशकानाम् । रचितो रजोभरपयस्तेजःश्वासान्तसम्बरैरेषः ॥ अन्न कल्पवृक्षाकैकवितरणातिशायिवर्णनीयराजवितरणातिशयाहेतौ क- ल्पवृक्षपरागादिरूपपञ्चभूतनिर्मितत्वेन तद्धेतुत्वप्रकल्पनं प्रौढोक्तिः ॥ १२५ ॥ संभावनालंकारः ६४ संभावना यदीत्थं स्थादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युगुणास्तव ॥ १२६ ॥ सर्व इति ॥ मालिन्यमिति ॥ मधुलिट्र भ्रमरः कलङ्कश्चैतावब्जशशिनोर्मालिन्यं धत्तः कुरुतः। तब मुखे तु दृक् च तिलकाजनं च तयोराभां शोभां धत्त इत्यनु- षज्यते । अञ्जनामे इति पाठे द्वितीयाद्विवचनम् । उक्तमर्थ सामान्येन समर्थय- ति। दोषावपि क्वचित् मेलनतो मिथो मिलनात् गुणखमितः प्रामुत इति । कथमेतत्तत्राह । हि यतः वतुर्वचसि भ्रमविप्रलम्भौ भ्रान्तिप्रतारणे गुणौ भव- तः। घटवति घटाभावं निर्णीय परप्रतारणाय घटोऽस्तीति प्रयुक्ते वाक्ये प्रमा- जनकत्वात्तयोर्गुणल मिति भावः॥ १२४ ॥ इति विकस्वरालंकारः ॥ ६२ ।। प्रौढोकिरिति ॥ उत्कर्षस्याऽहेताबुत्कर्षहेतुत्वकल्पनं प्रौढोक्तिः। कलिन्दजा यमुना । खोमः समूहः । मेचकाः श्यामाः। रोहणे उद्भवे ॥ कल्पेति ॥ एष राजा कल्पवृक्षादीनां क्रमेण रजोभरादिभिः पञ्चभी रचित इत्यन्वयः । धनदः कुबेरः । शङ्को निधिविशेषः । रजोभरः परागसमूहः । पयो दुग्वम् । श्वासः प्रसिद्धः । अन्तराम्बरं शङ्खाभ्यन्तरमाकाशम् । अतिशायीत्यग्रिमवितरणेना- न्वितम् । अहेतो पश्चनिर्मितत्वे इति सामानाधिकरण्येनान्वयः ॥ १२५ ॥ इति प्रौढोक्त्यलंकारः ॥ ६॥ .. संभावनेति ॥ ऊहस्तर्कः ॥ कस्तूरिकेति ॥ अहं यदि सृष्टिकर्ता स्यां १रुत्कर्षहेतौ'.२ "संभावन यदित्य'.