पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः। [विकखरालंकारः ६२ विकस्वरालंकारः ६२ यसिन्विशेषसामान्यविशेषाः स विकस्वरः । स न जिग्ये महान्तो हि दुर्धर्षाः सागरा इव ॥१२४॥ यत्र कस्यचिद्विशेषस्य समर्थनार्थ सामान्यं विन्यस्य तत्प्रसिद्धावप्यपरि- .. तुष्यता कविना तत्समर्थनाय पुनर्विशेषान्तरमुपमानरीत्यार्थान्तरन्यासविधया वा विन्यस्यते तत्र विकस्वरालंकारः । उत्तरार्ध यथाकथंचिदुदाहरणम् । इदं तु व्यक्तमुदाहरणम् । अनन्तरत्नप्रभवस्य यस्य हिमन सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥ इदमुपमानरीत्या विशेषान्तरस्य व्यसने उदाहरणम् । अर्थान्तरन्यासवि- धया यथा--- कर्णासन्तुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् । धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि कस्तूरिकां . नेपालक्षितिपालभालपविते पङ्के न शङ्केत कः ॥ त्यन्वयः । अत्रापि पूर्वार्धोक्तमप्रकृतसामान्यमुत्तरार्धोक्तेन प्रकृतेन विशेषेण समर्थितम् ॥ १२२ ॥ १२३ ॥ इत्यर्थान्तरन्यासालंकारः ॥ ६१ ॥ यस्मिन्निति ॥ यस्मिन्काव्ये इत्यर्थात् । निबध्यत इति शेषः । समर्थ्यसम- र्थकभावापन्नत्वं तु न लक्षणे निवेशनीयम् । तद्विना चमत्काराभावेन चमत्का- रिलविशेषणमवश्यवकव्येनैवानतिप्रसङ्गात् । एवमर्थान्तरन्यासलक्षणेऽपि बोध्य- म् ॥ स नेति ॥ स प्रकृतो राजा न जिग्ये न जितोऽर्थात्परैरिति शेषः। तत्समर्थनम् । महान्तो हि दुर्घर्षा अनाक्रमणीया इति सामान्येन तस्यापि सागरा इवेति विशेषोपमयेति ज्ञेयम् । प्रसिद्धरल्पत्वात्तत्रापरितोषो बोध्यः ॥ यथाकथं- .. चिदिति ॥ महतामनाक्रमणीयलस्यातिप्रसिद्धत्वेन तत्समर्थनापेक्षाभावाञ्चन्द्रा- लोकगतभेतन समञ्जसमिति भावः । इदं वक्ष्यमाणम् ॥ व्यक्तमिति ॥ गुण- . समुदाये एकस्य दोषस्यानाकलनमनतिप्रसिद्धतया समर्थनापेक्षमिन्दोरियादि- विशेषेण समर्थ्यत इत्यतः स्फुटमित्यर्थः । कर्णेति ॥ हे काक, कर्णयोररुन्तुदं पीडाजनक रसितं शब्दितमन्तरेण विना खयं मकरन्दः पुरुपरसस्तच्छालिनं माकन्दमाम्रवृक्षं गाहख आश्रय । इहाम्रतरौ त्वां वयं कोकिलं मन्महे जानी- महे । यतः स्थलवैभवेन स्थानमाहात्म्येन कतिचिद्वस्तूनि धन्यानि भवन्तीति सामान्येन पूर्वोक्तविशेषसमर्थनम् । अत्रापि तदाकालायां विशेषरूपमर्थान्तरं न्यसति । नेपालभूमिपालस्य भाले पतिते पट्टे कस्तूरिकां को न शकेत, अपितु १'दुर्दर्शाः