पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्थान्तरन्यासालंकारः६१] अलंकारचन्द्रिकासहितः। १३३ नापेक्षाविरहात् । नहि तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्व- शर्वरीश्वरः' इत्यादिषु समर्थनं दृश्यते । 'न विषेण न शस्त्रेण नाग्निना नच मृत्युना। अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥' इत्यादिकाव्यलिङ्गविषयेषु समर्थनापेक्षाविरहेऽप्यप्रतीकारपारुष्या इत्या- दिना समर्थनदर्शनाच्च । नहि तत्र स्त्रीणां विषादिनिर्मितत्वाभावप्रतिपादनं समर्थनसापेक्षं प्रसिद्धत्वात् । तस्मादुभयतो व्यभिचारात्समर्थनापेक्षसमर्थने काव्यलिङ्गं तन्निरपेक्षसमर्थनेऽर्थान्तरन्यास इति न विभागः, किंतु सामर्थ्य- समर्थकयोः सामान्यविशेषसंबन्धेऽर्थान्तरन्यासस्तदितरसंबन्धे काव्यलिङ्ग- मित्येव व्यवस्थावधारणीया । प्रपञ्चश्चित्रमीमांसायां द्रष्टव्यः। एवमप्रकृतेन प्रकृतसमर्थनमुदाहृतम् । प्रकृतेनाप्रकृतसमर्थनं यथा- . यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः। तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥ यथावा--- दानं ददत्यपि जलैः सहसाधिरूढे ___ को विद्यमानगतिरासितुमुत्सहेत । यद्दन्तिनः कटकटाहतटान्मिमङ्खो- मसूदपाति परितः पटलैरलीनाम् ॥ ३२२ ॥ १२३ ॥ न विषेणेत्यादेः स्त्रियः कृता इत्यनेनान्वयः अपितु स्त्रीभिरेव । यतः प्रती- काररहितं पारुष्यं क्रौर्य यासां तथाभूताः । उभयतोऽन्वयव्यतिरेकाभ्याम् । समर्थनापेक्षायामपि तदास्यदास्येऽपीलादौ तदभावात् । न विषेणेलादावपेक्षा- विरहेऽपि समर्थनसत्त्वात् ॥ अप्रकृतेनेति ॥ आधे महात्मनां सर्वसुकरत्वे- नाप्रकृतेन सामान्येन हनुमदन्धितरणस्य प्रकृतविशेषस्य समर्थनं द्वितीय पुष्प- मालासूत्रवृत्तान्तेनाप्रकृतेन विशेषरूपेण प्रकृतस्य गुणवत्सअप्रयुकपूज्यत्वस्य सामान्यरूपस्य समर्थनमित्यर्थः ॥ यदुच्यत इति ॥ हे पावति, रूपमाकति सौन्दर्य पापवृत्तये. दुष्ट्याचरणाय न भवति यत्राकृतिस्तत्र गुणा वसन्ति' इति न्यायादिति यदुच्यते तद्वचनमव्यभिचारि यथार्थम् । तथाहि उदार रमणीय दर्शनं यस्यास्तथाभूते पार्वति, तव शीलमाचरणं तपखिनामप्युपदेशरूपतां प्राप्तमिति प्रकृतेन विशेषेणाप्रकृतस्य सामान्यस्य समर्थनम् ॥ दानमिति । दान वितरणं मदजलं च । जलैरुदकैर्जडैश्च । लडयोरभेदात् । अधिरूढे आक्रा- न्ते सति । विद्यमानगतिः सगतिको बुद्धिमांश्च कः आसितुं स्थातुमुत्सहेत शकुयात् । यस्मान्मिमोमजनं कर्तुमिच्छोर्दन्तिनो गजस्य कटो गण्ड एव कटा- हस्तस्य तटादप्रादलीनां पटलैः समूहैः परितो मङ्घ शीघ्रमुदपाति. उत्पतितमि-