सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
कुवलयानन्दः । [अर्थान्तरन्यासालंकारः


'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा।
कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥
दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्वेऽपि नूनं शरणं प्रपन्ने ममस्वमुच्चैःशिरसामतीव ॥

 इत्याद्यर्थान्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थित्वमस्तीति । वस्तुतस्तु प्रायोवादोऽयम् । अर्थान्तरन्यासेऽपि हि विशेषस्य सामान्येन समर्थनानपेक्षत्वेऽपि सामान्य विशेषेण समर्थनमपेक्षत एव 'निर्विशेषं न सामान्य'मिति न्यायेन 'बहूनामप्यसाराणां संयोगः कार्यसाधकः' इत्यादि सामान्यस्य 'तृणैरारभ्यते रजुस्तया नांगोऽपि बध्यते' इत्यादि संप्रतिपन्नविशेषावतरण विना बुद्धौ प्रतिष्ठितस्वासंभवात् ॥

 नच तन्त्र सामान्यस्य 'कासां न सौभाग्यगुणोऽजनाना मित्यादिविशेषसमर्थनार्थसामान्यस्येव लोकसंप्रतिपन्नतया विशेषावतरणं विनैव बुद्धौ प्रतिष्ठितत्वं संभवतीति क्ष्लोके तन्न्यसनं नापेक्षितमस्तीति वाच्यम् । सामान्यस सर्वत्र लोकसंप्रतिपनत्वनियमाभावात् । नहि यो यो धूमवान् स 'सोऽग्निमानिति व्याप्तिरूपसामान्यस्य लोकसंप्रतिपन्नतया यथा महानस इति तद्विशेषरूपदृष्टान्तानुपादानसंभवमात्रेणाप्रसिद्धव्याप्तिरूपसामान्योपन्यासेऽपि तद्विशेषरूपदृष्टान्तोपन्यासनैरपेक्ष्यं संभवति । न चैवं सामान्येन विशेषसमर्थनस्थलेऽपि कचित्तस्य सामान्यस्य लोकप्रसिद्धत्वाभावेन तस्य बुद्धावारोहाय पुनर्विशेषान्तरस्य न्यासप्रसङ्ग इति वाच्यम् । इष्टापत्तेः अत्रैव विषये घिकस्वरालंकारस्यानुपदमेव- दर्शयिष्यमाणत्वात् । किंच काव्यलिङ्गेऽपि न सर्वत्र समर्थनसापेक्षत्वनियमः । 'चिकुरप्रकरा जयन्ति तें' इत्यत्र तदभावादुपमानवस्तुषु वर्णनीयसाम्याभावेन निन्दायाः कविकुलक्षुण्णत्वेनात्र समर्थ-


न्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थत्वं नास्तीति संबन्धः। शरदा शशाङ्के उपगूढे आलिङ्गिते सति । अथानन्तरम् शान्तास्तडिद्रूपाः कटाक्षा यस्याः सा प्राधृट् ययौ गतवती । उफ विशेषरूपमर्थ सामान्यरूपेणार्थान्तरेण समर्थयति । परिभ्रष्टपयोधराणां कासामङ्गनानां सौभाग्यगुणो न नष्ट इति । पयोधराः कुचा मेघाश्च ॥ दिवाकरादिति ॥ कुमारसंभवे हिमालयवर्णनम् । यो हिमालयः। ममत्वं मदीयताबुद्धिः । शिरो मस्तकं शिखरं च ॥ समर्थनार्थित्वं समर्थनापेक्षत्वम् । अयमर्थान्तरन्यासे समर्थनानपेक्षखरूपः । सामान्यस्येवस्य बुद्धौ प्रतिष्ठितखासंभवादित्यनेनान्वयः॥ संप्रतिपन्नेति ॥ वक्तृश्रोतृसंमतेत्यर्थः । विशेवितरण विशेषावगमम् । तत्र बाहनामित्यादौ सामान्यस्येति विशेषावतरणं विनैव बुद्धौ प्रतिष्ठितत्व संभवतीत्यग्रिमेणान्वितम् । तन्न्यसनं तृणैरित्यादिविशेषन्यसनम् । नन्वेवमप्यार्थान्तरन्यासे क्वचिदेव समर्थनापेक्षा, काव्यलिझे तु सर्वत्र सेत्यस्तु मेंद इत्याशङ्कयाह---किंचेति॥ कविकुलक्षुण्णत्वेन कविसमूहाभ्यस्तत्वेन । तदास्यदास्ये नलमुखदास्ये। पर्वणि पूर्णिमायां भवः पार्वणः शर्वरीश्वरश्चन्द्रः