पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १३२ ..' - unia MAHARATTAREENNERARREARRESTRIA कुवलयानन्दः । [अर्थान्तरन्यासालंकारः 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा। कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥ दिवाकरादक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्वेऽपि नूनं शरणं प्रपन्ने ममस्वमुच्चैःशिरसामतीव ॥ इत्याद्यर्थान्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थिस्वमस्तीति । वस्तु- तस्तु प्रायोवादोऽयम् । अर्थान्तरन्यासेऽपि हि विशेषस्य सामान्येन समर्थ- नानपेक्षत्वेऽपि सामान्य विशेषेण समर्थनमपेक्षत एव 'निर्विशेषं न सामान्य'- मिति न्यायेन 'बहूनामप्यसाराणां संयोगः कार्यसाधकः' इत्यादि सामान्यस्य 'तृणैरारभ्यते रजुस्तया नांगोऽपि बध्यते' इत्यादि संप्रतिपनविशेषावतरण विना बुद्धौ प्रतिष्ठितस्वासंभवात् ॥ नच तन्त्र सामान्यस्य 'कासां न सौभाग्यगुणोऽजनाना मित्यादिविशेषसम- र्थनार्थसामान्यस्येव लोकसंप्रतिपन्नतया विशेषावतरणं विनैव बुद्धौ प्रतिष्ठि- तत्वं संभवतीति श्लोके तथ्यसनं नापेक्षितमस्तीति वाच्यम् । सामान्यस सर्वत्र लोकसंप्रतिपनत्वनियमाभावात् । नहि यो यो धूमवान् स 'सोऽग्नि- मानिलि व्याप्तिरूपसामान्यस्य लोकसंप्रतिपन्नतया यथा महानस इति त- द्विशेषरूपदृष्टान्तानुपादानसंभवमात्रेणाप्रसिद्धव्याप्तिरूपसामान्योपन्यासेऽपि तद्विशेषरूपदृष्टान्तोपन्यासनैरपेक्ष्यं संभवति । न चैवं सामान्येन विशेषस- मर्थनस्थलेऽपि कचित्तस्य सामान्यस्य लोकप्रसिद्धत्वाभावेन तस्य बुद्धावारो- हाय पुनर्विशेषान्तरस्य न्यासप्रसङ्ग इति वाच्यम् । इष्टापत्तेः अत्रैव विषये घिकस्वरालंकारस्यानुपदमेव- दर्शयिष्यमाणत्वात् । किंच काव्यलिङ्गेऽपिन सर्वत्र समर्थनसापेक्षत्वनियमः । 'चिकुरप्रकरा जयन्ति तें' इत्यत्र तदभावा- दुपमानवस्तुषु वर्णनीयसाम्याभावेन निन्दायाः कविकुलक्षुण्णत्वेनात्र समर्थ- NTERASHANISARAMETERASENTERTAINMARATHeam न्तरन्यासोदाहरणेषु प्रस्तुतस्य समर्थनार्थत्वं नास्तीति संबन्धः। शरदा शशाङ्के उपगूढे आलिङ्गिते सति । अथानन्तरम् शान्तास्तडिद्रूपाः कटाक्षा यस्याः सा प्राधृट् ययौ गतवती । उफ विशेषरूपमर्थ सामान्यरूपेणार्थान्तरेण समर्थयति । परिभ्रष्टपयोधराणां कासामङ्गनानां सौभाग्यगुणो न नष्ट इति । पयोधराः कुचा मेघाश्च ॥ दिवाकरादिति ॥ कुमारसंभवे हिमालयवर्णनम् । यो हिमालयः। ममत्वं मदीयताबुद्धिः । शिरो मस्तकं शिखरं च ॥ समर्थनार्थित्वं समर्थनापेक्ष- खम् । अयमर्थान्तरन्यासे समर्थनानपेक्षखरूपः । सामान्यस्येवस्य बुद्धौ प्रति- ठितखासंभवादित्यनेनान्वयः॥ संप्रतिपन्नेति ॥ वक्तृश्रोतृसंमतेत्यर्थः । विशे- वितरण विशेषावगमम् । तत्र बाहनामित्यादौ सामान्यस्येति विशेषावतरण विनैव बुद्धौ प्रतिष्ठितत्व संभवतीत्यग्रिमेणान्वितम् । तन्न्यसनं तृणरित्यादिविशेष- न्यसनम् । नन्वेवमप्यार्थान्तरन्यासे क्वचिदेव समर्थनापेक्षा, काव्यलिझे तु सर्वत्र सेत्यस्तु मेंद इत्याशयाह---किंचेति॥ कविकुलक्षुण्णत्वेन कविसमूहाभ्यस्त- त्वेन । तदास्यदास्ये नलमुखदास्ये। पर्वणि पूर्णिमायां भवः पार्वणः शर्वरीश्वरश्चन्द्रः R म . INAR